Pramāṇa · Search · About · API

History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v1.c24.5

History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v1.c24.5

Language
English

v1.c24.5

आजौ मत्तगजेन्द्रकुम्भदलनस्फीतस्फुरद्दोर्युगो। ध्वस्तानेकरिपुप्रभाव - - - यशोमण्डलः ॥ न्यस्ताशेषनरैन्द्रमौलिचरणस्फारप्रतापानलो। लक्ष्मीवान् समराभिमानविमलप्रख्यातकीर्तिर्नृपः ॥ २५ ॥ येनेयं शरदिन्दुबिम्बधवला प्रख्यातभूमण्डला। लक्ष्मीसंगमकांक्षया सुमहती कीर्तिश्चिरं कोपिता ॥ याता सागरपारमद्भुतरसा सापत्न्यवैरादहो। तेनेदं भवनोत्तमं क्षितिभुजा विष्णोः कृते कारितम् ॥ २६ ॥ तज्जनन्या महादेव्या श्रीमत्या कारितो मठः। धार्मिकेभ्यः स्वयं दत्तः सुरलोकगृहोपमः ॥ २७ ॥ शंखेन्दुस्फटिकप्रभाप्रतिनमष्कारस्फुरच्छ्रीकरम्। नक्राक्रान्तचलत्तरंगविलसत्पक्षिपृनृत्यत्तिामि ॥ राज्ञा खानितमद्भुतं सुतपसा पेपीयमानं जनै - । स्तस्यैव प्रियभार्यया नरपतेः श्रीकोणदेव्या सरः ॥ २८ ॥ यावच्चन्द्रकला हरस्य शिरसि श्रीः शार्ङ्गिणो वक्षसि। ब्रह्मस्थे च सरस्वती कृतं - - - - - ॥ भोगे भूर्जगजाधिपस्य च तडियावद्धनस्योदरे। तावत्कीर्तिमिहातनोति धवलादित्यसेनो नृपः ॥ २९ ॥ सूक्ष्मशिवेन गौडेन प्रशस्तिर्विकटाक्षरा।
- - - मामिता सम्यधार्मिकेण सुधीमता ॥ ३० ॥