Pramāṇa · Search · About · API

History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v3.c43.16

History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v3.c43.16

Language
English

v3.c43.16

ॐ नमः शिवाय...स श्रीकंठशिरोमणिविजयते देवस्तमीवल्लभः॥ वंशे तस्या- भ्युदयिनि सदाचारचर्यानिरूढी प्रौढा राधामकलितचरैः भूपयन्तोनुभावैः। शश्वद्विश्वा- भयवितरणस्थूललक्ष्यावलक्ष्यैः कीर्त्युल्लोलैः स्नपितवियतो जज्ञिरे राजपुत्राः। तेषां वंशे महोजाः प्रतिभटपृतनाम्भोधिकल्पान्तसूरः...सत्यशीलो...निरुपधिकरुणाधामसामन्तसेनः। तस्मादजनि वृषध्वजचरणाम्बुजषट्पदो गुणाभरणः। हेमन्तसेनदेवो वैरिसरःप्रलय हेमन्तः। ...तस्मादभूदखिल पार्थिवचक्रवर्ति निर्व्याजविक्रमतिरस्कृतसाहसाङ्कः। दिक्पालचक्र पुटभेदनवीतकीर्तिः पृथ्वीपतिर्विजयसेनपदप्रकाशः...अस्य प्रधानमहिषी जगदीश्वरस्य शुद्धान्तमौलिमणिराम विलासदेवी। देवी सुतं सुतपसं सुरुतरैर्सूत वल्लालसेनमतुलं गुणगौरवेन ...स खलु श्रीविक्रमपुरसमावासितश्रीमज्जयस्कंधावारात्। महाराजाधिराज श्रीविजयसेन देवपादानुध्यात परमेश्वर-परमाहेश्वर-परमभट्टारकमहाराजाधिराज श्रीमद्वल्लालसेनदेवः कुशली समुपजातअशेषराजराजन्यराज्ञिराणकराजपुत्रराजामात्यपुरोहितमहाधर्माध्यक्षमहा- सांधिविग्रहिक महासेनापतिमहामुद्राधिकृतअंतरंगबृहदूपरिक महाक्षपटलिक महाप्रतीहारमहा- भोगिकमहापीलुपति महागणस्थ दौस्साधनिकचौरुद्धरणिकनौबलहस्त्यश्वगोमहिषाजाविका- दिव्यापृतक गौल्मिकदण्डपाशिकदण्डनायकविषयपत्यादीन् अन्यांश्च सकलराजपादोपजी- विनो अध्यक्षप्रचारोक्तांश्च इह अकीर्तितान् चटभटजातीयान् जनपदान् क्षेत्रकरांश्च ब्राह्मणा- न् ब्राह्मणोत्तरान् यथाई मानयति बोधयति समादिशति च। मतमस्तु भवतां यथाश्रीवर्धमान भुक्त्यन्तःपाति उत्तरराढामण्डले स्वल्पदक्षिणवीथ्यां खाण्डयिल्हशासनशासनोत्तरस्थितः संघटियानयुत्तरः नारिचाशासनोत्तरस्थसंघटियानदीपाश्चिमोत्तरः...एवं चतुःसीमावच्छिन्न- वाल्लहट्टग्रामः श्रीवृषभशंकरनलेन सवास्तुनालखिलादिभिः तालत्रयाधिकचत्वारिंशदुम्मा- नसमेत आढकनवद्रोणोत्तरसप्तभूपटकात्मकः प्रत्यब्दं कपर्दक पुराणपञ्चशतोत्पात्तिकः सझाटविटपः सगतोर्भरः सजलस्थलः सगुवाकनिरिकरः सह्यदशापराधः परिहृतसर्वपीडः तृणयूतिगोचरपर्यन्तः अचाटभटप्रवेशः अकिंचिदप्रग्राहः समस्तराजभोगकरहिरण्यप्र- त्यायसहितः। वराहदेवशर्मणः प्रपौत्राय भट्टेश्वरदेवशर्मणः पौत्राय लक्ष्मीधरदेवशर्मणः पुत्राय भारद्वाजगोत्राय भारद्वाजाङ्गिरसबार्हस्पत्यप्रवराय सामवेदकौथुमशाखाचरणध्यायिने आचार्यश्रीओवासुदेवशर्मणे अस्मान्मातृश्रीविलास- देवीभिः सुरसरिते सूर्योपरागे दत्तहेमाभमहादानदक्षिणात्वेन उत्सृष्टः मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये आचन्द्राकं क्षितिसमकालं यावद्भूमिच्छिद्रन्यायेन ताम्रशासनीकृत्य प्रदत्तोस्माभिः अतःभवद्भिः सर्वैरनुमन्तव्यं भाविभिरपि भूपतिभिरपहरणे नरकपातभयात् पालने धर्मगौरवात् पालनीयम्। भवन्ति चात्र धर्मानुशंसिनः श्लोकाः.......... जितमखिल क्षितिपालः श्रीमद् बल्लालसेनभूपालः ओवासुशासने कृतदूतं हरिघोषसन्धि- विग्रहिक संवत् ११ वैशाखदिने १६ श्रीः (7) Extract from Madanapāla's Insc. LXIX J. B. (p. 11).