History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v3.c43.17
History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v3.c43.17
- Language
- English
v3.c43.17
...रमावतीनगरपरिसरमावासितश्रीमज्जयस्कन्धावारात् । परमसौगतो महाराजाधिराजश्रीरामपतिदेवपादानुध्यातः परमेश्वरः परमभट्टारकः महाराजाधिराज श्रीमन्मदनपालदेवः कुशली । श्रीपौण्ड्रवर्धनभुक्तौ कोटीश्वरविषये हलावर्तमण्डले काष्ठगिरिसविशायाबाधिकोपेतसकेषदावर्चधरट्के त्रिंशतिकायां भूमौ समुपगताशेषराजपुरुषान् राजराजन्यकराजपुत्रराजामात्यमहासान्धिविग्रहिकमहाक्षपटलिकमहासामन्तमहासेनापति महाप्रतिहारदौःसाध्यसाधनिकमहाकुमारामात्यराजस्थानीयोपरिक चौरोद्धरणिकदाण्डिकदण्डपाशिकौलिकक्षेत्रप्रान्तपालकोट्टपालाङ्गरक्षकतदायुक्तविनियुक्त हस्त्यश्वोष्ट्रनौबलय्यापृत किशोरवडवागोमहिषाजाविकाध्यक्ष दूतप्रेषणिकगमगामिकअभित्वरमाण विषयपतिग्रामपतितरिशौल्किकगौल्मिकगौडमालवचोडखसहुणकुलिककर्णाटलाटचाटभटसेवकादीन् । अन्यांश्चाकीर्तितान् राजपादोपजीविनः प्रतिवासिनो ब्राह्मणोत्तरान् महत्तमोत्तमकुटुम्बिपुरोगण्डालपर्यन्तान् यथार्हं मानयति बोधयति समादिशति च । विदितमस्तु भवताम् । यथोपरिलिखितोयं ग्रामः स्वसीमातृणपूतगोचरपर्यन्तः सतलः सोद्देशः साम्रमधूकः सजलस्थलः सतोरिषः समाटविटपः सदरचापसारः सचौरोद्धरणिकः परिहृतसर्वपीडः अचाटभटप्रवेशः अकिंचित्प्रग्राहः समस्तभागभोगहिरण्यादिप्रत्यायसमेतः रत्नत्रयराजसंभोगवर्जितः । भूमिच्छिद्रन्यायेन आचन्द्रार्कक्षितिसमकालं पित्रोरात्मनश्च पुण्ययशोभिवृद्धये कौत्ससगोत्राय शाण्डिल्यासितदेवलप्रवराय पंडितश्रीभूषणसन्नहचारिणे सामवेदान्तर्गतकौथुमशाखाध्यायिने चम्पाहट्टियाय चम्पाहट्टिवास्तव्यवत्स्वामिप्रजापतिस्वामिपौत्राय शौनकस्वामिपुत्राय पंडितपुत्रश्रीवनेश्वरस्वामिशर्मणे पट्टमहादेवीश्रीचित्रमटिकायाः वेदव्यासप्रोक्तप्रवाचित महाभारतसमुत्सर्जितदक्षिणात्वेन भगवन्तं बुद्धभट्टारकमद्दिश्य शासनीकृत्य प्रदत्तोस्माभिः श्रुतो भवद्भिः सर्वैरिवानुमन्तव्यः भाविर्भिभूपतिभिर्भुमेदानफलगौरवात् अपहरणमहानरकपातभयाच्च दानमिदमनुमोदानुमोघपालनीयम् । प्रतिवासिमिश्च क्षेत्रकरैराज्ञाश्रवणविधेयीभूय यथाकालं समुचितभागभोगहिरण्यादिप्रत्यादेयोपनयः कार्यः इति संवत् ८ चंद्रगत्याचैत्रकर्मदिने ५ । ...रुत सकलनीतिज्ञो ...श्वैयंभोदधिः । सान्धिविग्रहिकःश्रीमान् भीमदेवोत्र दूतकः ।। राज्ये मदनपालस्य अष्टमे परिवत्सरे । ताम्रपट्टमिमं शिल्पी तथारीतसरोखनत् ।।