Hindu Polity: A Constitutional History of India in Hindu Times c22.8
Hindu Polity: A Constitutional History of India in Hindu Times c22.8
- Language
- English
c22.8
"Of the Characteristics of the Gaṇas."
गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर ॥ 6॥
यथा गणाः प्रवर्द्धन्ते न भिद्यन्ते च भारत ।
अरींश्च विजिगीषन्ते सुहृदः प्राप्नुवन्ति च ॥ 7 ॥
भेदमूलो विनाशोहि गणानामुपलक्षये ।
मन्त्रसंवरशं दुःखं बह्वानामिवि मे मतिः ॥ 8 ॥
एतदिच्छाम्यहं श्रोतुं निखिलेन परन्तप ।
यथा च ते न भिद्येरंस्तन् मे वद पार्थिव ॥ 9 ॥
॥ भीष्म उवाच ॥
गणानाञ्च कुलानाञ्च राज्ञां भरतसत्तम ।
वैरसदीपनावेतो लोभामर्षो नराधिप ॥ 10 ॥
लोभमेको हि वृणुते ततोऽमर्षमनन्तरम् ।
तौ क्षयव्ययसंयुक्तावन्योन्यञ्च विनागिनो ॥ 11 ॥
चारमन्त्रबलादानैः सामदामविभेदनैः ।
क्षयव्ययभयोपायैः कर्षयन्तीतरेतरम् ॥ 12 ॥
तत्रादानेन भिद्यन्ते गणाः संघातवृत्तयः ।
भिन्ना विमनसः सर्व्वे गच्छन्त्यरिवशं भयात् ॥ 13 ॥
भेदे गणा विनश्येयुर्भिन्नास्तु सुजयाः परैः ।
तस्मात् संघातयोगेन प्रयतेरन् गणाः सदा ॥ 14 ॥
अर्थाश्चैवाभिगम्यन्ते संघात-बल-पौरुषैः ।
बाह्याश्च मैत्रीं कुर्व्वन्ति तेषु संघातवृत्तिषु ॥ 15 ॥
ज्ञानवृद्धाः प्रशंसन्ति शत्रूषन्तः परस्परम् ।
विनिवृत्ताभिसन्धानाः सुखमेधन्ति सर्व्वशः ॥ 16 ॥