Hindu Polity: A Constitutional History of India in Hindu Times c22.9
Hindu Polity: A Constitutional History of India in Hindu Times c22.9
- Language
- English
c22.9
धर्मिष्ठान् व्यवहारांश्च स्थापयन्तश्च शाश्वतः ।
यथावत् प्रतिपश्यन्तो विवर्धन्ते गणोत्तमाः ॥ 17 ॥
पुत्रान् भ्रातृन् विगृह्णन्तो विनयन्तश्च तान् सदा ।
विनीतांश्च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः ॥ 18 ॥
चारमन्त्रविधानेषु कोषसन्निचयेषु च ।
नित्ययुक्ता महाबाहो वर्तन्ते सर्वतो गणाः ॥ 19 ॥
प्राज्ञान् शूरान्महोत्साहान् कर्मसु स्थिरपौरुषान् ।
मानयन्तः सदा युक्तान् विवर्धन्ते गणा नृप ॥ 20 ॥
द्रव्यबन्तश्च शूराश्च शस्त्रज्ञाः शास्त्रपारगाः ।
कृच्छ्रास्वापत्सु संमूढान् गणाः सन्तारयन्ति ते ॥ 21 ॥
क्रोधो भेदो भयं दण्डः कर्षणं निग्रहो वधः ।
नयत्यरिवशं सद्यो गणान् भरतसत्तम ॥ 22 ॥
तस्मान्मानयितव्यास्ते गणमुख्याः प्रधानतः ।
लोकयात्रा समायत्ता भूयसी तेषु पार्थिव ॥ 23 ॥
मन्त्रगुप्तिः प्रधानेषु चारश्चारित-कर्षण ।
न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत ॥ 24 ॥
गणमुख्यैस्तु सम्भूय कार्यं गणहितं मिथः ।
पृथग्गणस्य भिन्नस्य विततस्य ततोऽन्यथा ॥ 25 ॥
अर्थाः प्रत्यवसीदन्ति तथानर्था भवन्ति च ।
तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम् ॥ 26 ॥
निग्रहः पण्डितैः कार्य्यः क्षिप्रमेव प्रधानतः ।
कुलेषु कलहा जाताः कुलवृद्धैरपेक्षिताः ॥ 27 ॥
गोत्रस्य नाशं कुर्व्वन्ति गणभेदस्य कारकम् ।
आभ्यन्तरभयं रक्षामसारं बाह्यतो भयम् ॥ 28 ॥
आभ्यन्तरं भयं राजन् सद्यो मूलानि कृन्तति ।
अकस्मात् क्रोधमोहाभ्यां लोभाद्वाऽपि स्वभावजात् ॥ 29 ॥
अन्योन्यं नाभिभाषन्ते तत् पराभव-लक्षणम् ।
जात्या च सदृशाः सर्व्वे कुलेन सदृशास्तथा ॥ 30 ॥
न चोद्योगेन बुद्ध्या वा रूपद्रव्येण वा पुनः ।