History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v2.c24.s1.330
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v2.c24.s1.330
- Language
- English
v2.c24.s1.330
852a अष्टाचत्वारिंशद्वर्षे वेदब्रह्मचर्याचरणस्यापि स्मृत्तावेव पक्षान्तरविकल्पोपनिबन्धनादाश्रमन्तरविषयत्वसंभवान्न विरोधाभावः । तथाहि—वेदानधीत्य वेदो वा वेदं वापि यथाक्रमम् (मनु 3. 2)। सामर्थ्याश्रमयोग्यत्वमङ्गीकृत्यैतदुच्यते । ...तत्रैवं शक्यते वक्तुं येऽन्धपङ्ग्वादयो नराः । गृहस्थत्वं न शक्ष्यन्ति कर्तुं तेषामयं विधिः ॥ नैष्ठिकब्रह्मचर्ये वा परिव्राजकतापि वा । तैरवश्यं ग्रहीतव्या तेनादावेतदुच्यते ॥ ...यो वा कश्चिन्मेधावितया शीघ्रमेव वेदचतुष्टयमप्यधीत्य यथोपपत्तिकालं तदर्थज्ञानाभियोगमपरित्यजन् ग्रहणान्तं चेत्येतत्पक्षाश्रयेण गृहस्थो भवेत्तं प्रति द्वादशाष्टाचत्वारिंशद्वर्षपक्षावनेनैव स्मरणेन पूर्वपक्षीकृताविति नातीव श्रुतिविरुद्धत्वेनोदाहर्तव्यौ । तन्त्रवार्तिक pp. 192–193.
Linked texts (1)
- Mānava Dharmaśāstra — Manu & Bhṛgu, Sanskrit