History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.143
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.143
- Language
- English
v3.c54.143
पुरुषं सत्यमच्युतमनिरुद्धं श्रियं महीमिति नाम्नावाह्य निर्वापं हुत्वाज्येन विष्णुसूक्तपुरुषसूक्ताभ्यामतो देवादीन् श्रिये जातो मेदिनी देवीति चतुरावर्त्य हुत्वा नाम्ना साज्यं चरुं जुहुयात् । प्रभाते स्नात्वा प्रणवेन देवमुत्थाप्य शकुनसूक्तं जपन्सह कुम्भेन देवमानीय गृहे वायव्यां देवायतनेऽग्निशालायां वार्चापीठे रत्नं सुवर्णं वा संन्यस्य विष्णुसूक्तपुरुषसूक्ताभ्यां विष्णुं प्रतिष्ठापयामीति प्रतिष्ठाप्य बिम्बस्य मूर्ध्नि नाभौ पादे च सुवर्भुवभूरिति हृदये प्रणवं विन्यस्येदं विष्णुरिति देवं ध्यायन्कुम्भस्थमाधायं शक्तियुतं कूर्चेनादाय बिम्बस्य मूर्ध्नि विष्णुमावाहयामीति संस्त्राप्यावाहनं करोति । विधिनेवाराध्य हविर्निवेदयति । वैखानसस्मार्त VI. 10-11.
Linked texts (1)
- Vaikhānasasmārtasūtra — Vikhanas, Sanskrit