History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.2
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.2
- Language
- English
v3.c54.2
PAGE 202, NOTE 470—अथ यस्य जायामार्तवं विन्देत् त्र्यहं कंसेन पिबेदहतवासा नैनां वृषलो न वृषल्युपहन्यात् त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत्।... अथाभिप्रतरेव स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहा•नुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति हुत्वोद्धृत्य प्राश्नाति प्राश्येतर•स्याः प्रयच्छति प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रि can अभ्युक्षत्युत्तिष्ठातो विश्वा•वसोऽन्यामिच्छ प्रपूर्व्यां सं जायां पत्या सहेति । अथैनामभिपद्यतेऽमोहमस्मि सा त्वं सा त्वमस्यमोऽहं सामाहमस्मि ऋक्त्वं द्यौरहं पृथिवी त्वं तावेहि संरभावहै सह रेतो दधावहै पुंसे पुत्राय वित्तय इति । अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति तस्यामर्थं निष्ठाय मुखेन मुखं संधाय त्रिरेनामनुलोमामनुमार्ष्टि । विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥ गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके । गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ हिरण्मयी अरणी याभ्यां निर्मन्थतामश्विनौ । तं ते गर्भं हवामहे दशमे मासि सूतये ॥ यथाग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण गर्भिणी । वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति । बृहदारण्यकोपनिषद् VI. 4. 13 and 19–22. विष्णुर्योनिं...सूतये are Ṛg. X. 184. 1–3 and विष्णुर्योनिं ... दधामि ते are आप. म. पा. I. 12. 1–3 and 5.
Linked texts (3)
- Bṛhadāraṇyakopaniṣad — Sanskrit
- Ṛgvedasaṃhitā — Sanskrit
- Ekāgnikāṇḍa — Sanskrit