History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.3
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.3
- Language
- English
v3.c54.3
PAGE 207, NOTE 481—अथ खलु यत्र क्व च होष्यन्स्यादिषुमात्रावरं सर्वतः स्थण्डिलमुपलिप्योल्लिख्य षड्लेखा उदगायतां पश्चात्प्रागायते नानानन्त्योस्तिस्रो मध्ये तदभ्युक्ष्यग्निं प्रतिष्ठाप्यान्वाधाय परिसमूह्य परिस्तीर्य पुरस्ताद्दक्षिणतः पश्चादुत्तरत इत्युदक्संस्थं तूष्णीं पर्युक्षणम् । पवित्राभ्यामाज्यस्योत्पवनम् । अप्रच्छिन्नाग्रावनन्तर्गभौ प्रादेशमात्रौ कुशौ नानानन्तयोर्गृहीत्वाङ्गुष्ठोपकनिष्ठिकाभ्यामुत्तानाभ्यां पाणिभ्यां सवितुष्ट्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण वसोः सूर्यस्य .रश्मिभिरिति प्रागुत्पुनाति सकृन्मन्त्रेण द्विस्तूष्णीम् । कृताकृतमाज्यहोमेषु परिस्तरणम् । तथाज्यभागौ पाकयज्ञेषु । मह्या च धन्वन्तरियज्ञशूलगववर्जम् । अमुष्मै स्वाहेति जुहुयात् । अग्निरिन्द्रः प्रजापतिर्विश्वे देवा ब्रह्मेत्यनादेशे । आश्व. गृ. I. 3. 1–8. The मन्त्र with which the offering to Agni Sviṣṭakṛt is made is यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत् स्विष्टकृद्विद्वान्सर्वं स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्धयित्रे सर्वान्नः कामान्समर्धय स्वाहा इति । आश्व. गृ. I. 10. 22.
Linked texts (1)
- Āśvalāyanagṛhyasūtra — Āśvalāyana, Sanskrit