History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.37
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.37
- Language
- English
v3.c54.37
PAGE 314, NOTE 746 (धर्मनिर्णयमण्डलसंकलिता संध्या )—आचमन-प्राणायामयोरनन्तरं श्रीपरमेश्वरप्रीत्यर्थं प्रातःसंध्योपास्ति ( सायंसंध्योपास्तिमिति वा यथाकालं ) करिष्य इति संकल्पं कुर्यात् । ( ततः अर्घ्यप्रदानम् ) ओं भूर्भुवः स्वः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । श्रीसूर्यायेदमर्घ्यं दत्तं न मम । इत्युक्त्वा सूर्याभिमुखं जलमुत्क्षिपेत् त्रिवारम् । ( तदनन्तरं जपः ) ओं भूर्भुवः स्वः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । इति दशकृत्वो जपेत् । ( ततः सूर्योपस्थानम् ) पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः । यत्ते रूपं कल्याणतमं तत्ते पश्यामि । योसावसौ पुरुषः सोहमस्मि । ( अभिवादनम् ) । अमुकप्रवरान्वित-अमुकगोत्रोत्पन्नः अमुकवेदस्य अमुकशाखा-अमुकसूत्राध्यायी अमुकशर्माहंमभिवादये भोः । अनेन संध्योपासनाख्येन कर्मणा भगवान् श्रीपरमेश्वरः प्रीयताम् । ओं तत्सत् ।