Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.38

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.38

Language
English

v3.c54.38

Page 455, NOTE 1075—(सापिण्ड्य)—असपिण्डां समानः एकः पिण्डो देहो यस्याः सा सपिण्डा न सपिण्डा असपिण्डा ताम् । सपिण्डता च एकशरीरावयवान्वयेन भवति । तथाहि पुत्रस्य पितृशरीरावयवान्वयेन पित्रा सह । एवं पितामहादिभिरपि पितृद्वारेण तच्छरीरावयवान्वयात् । एवं मातृशरीरावयवान्वयेन मात्रा । तथा मातामहादिभिरपि मातृद्वारेण । तथा मातृष्वसृमातुलादिभिरप्येकशरीरावयवान्वयात् । तथा पितृव्यपितृष्वस्त्रादिभिरपि । तथा पत्या सह पत्न्या एकशरीरारम्भकतया । एवं भ्रातृभार्याणामपि परस्परमेकशरीरारब्धैः सहैकशरीरारम्भकत्वेन । एवं यत्र यत्र सपिण्डशब्दस्तत्र तत्र साक्षात्परंपरया वा एकशरीरावयवान्वयो बोद्धव्यः । ... अवश्यं चैकशरीरावयवान्वयेन सापिण्ड्यं वर्णनीयम् । 'आत्मा हि जज्ञ आत्मनः' इत्यादिश्रुतेः । तथा 'प्रजामनु प्रजायसे' इति च । 'स एवार्थं विरूढः प्रत्यक्षेणोपलभ्यते' इत्यापस्तम्बवचनाच्च । तथा गर्भोपनिषदि 'एतत् षाट्कौशिकं शरीरं त्रीणि पितृतस्त्रीणि मातृतोऽस्थिस्नायुमज्जानः पितृतस्त्वङ्मांसरुधिराणि मातृतः' इति तत्र तत्रावयवान्वयप्रतिपादनात् ।...असपिण्डामित्यत्रैकशरीरावयवान्वयद्वारेण साक्षात्परंपरया वा सापिण्ड्यमुक्तं तच्च सर्वत्र सर्वस्य यथाकथंचिदनादौ संसारे संभवतीत्यतिप्रसङ्ग इत्यत आह । पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा । मातृतो मातुः संताने पञ्चमादूर्ध्वं पितृतः पितु

Linked texts (3)