History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.39
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.39
- Language
- English
v3.c54.39
संताने सप्तमादूर्ध्वं सापिण्ड्यं निवर्तत इति शेषः। अतश्चायं सपिण्डशब्दोऽवयवशक्त्या सर्वत्र वर्तृमानोऽपि निर्मन्थ्यपङ्कजादिशब्दवन्नियतविषय एव । तथा च पित्रादयः षट्सपिण्डाः पुत्रादयश्च षट् आत्मा च सप्तमः । संतानभेदेपि यतः संतानभेदस्तमादाय गणयेद्यावत्सप्तम इति सर्वत्र योजनीयम् । तथा च मातरमारभ्य तत्पितृपितामहादिगणनार्या पञ्चमसंतानवर्तिनी मातुतः पञ्चमीत्युपचर्यते । एवं पितरमारभ्य तत्पित्रादिगणनार्या सप्तमपुरुषसंतानवर्तिनी पितुतः सप्तमीति । मिताक्षरा on या. I. 52-53.