Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.5

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.5

Language
English

v3.c54.5

PAGE 222, NOTE 518—चतुर्थे गर्भमासे सीमन्तोन्नयनम्। आपूर्यमाणपक्षे यदा पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात्। अथाग्निमुपसमाधाय पश्चादस्यानाडुहं चर्मास्तीर्य प्राग्ग्रीवमुत्तरलोम तस्मिन्नुपविष्टायां समन्वारब्धायां धाता ददातु दाशुष इति द्वाभ्यां राकामहमिति द्वाभ्यां नेजमेष इति तिसृभिः प्रजापते न त्वदेतान्य इति च। अथास्यै युग्मेन शलाटुगल्पसेन त्रेण्या च शलल्या त्रिभिश्च कुशपिञ्जुलैरूर्ध्वं सीमन्तं व्यूहति भूर्भुवः स्वरोमिति त्रिः। चतुर्वा। वीणागाथिनौ संशास्ति सोमं राजानं संगायेतामिति। सोमो नो राजावतु मानुषीः प्रजा निविष्टचक्रासाविति यां नदीमुपवसिता भवन्ति। ब्राह्मण्यश्च वृद्धा जीवपत्यो जीवप्रजा यद्यदुपदिशेयुस्तत्तत्कुर्युः। ऋषभॊ दक्षिणा। आश्व. गृ. I. 14. 1–9.

Linked texts (1)