History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.6
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.6
- Language
- English
v3.c54.6
PAGE 229, NOTE 526 (जातकर्म)—जातेऽग्निमुपसमाधायाङ्क आधाय कंसे पृषदाज्यं संनीय पृषदाज्यस्योपघातं जुहोत्यस्मिन्सहस्रं पुष्यासमेधमानः स्वे गृहे। अस्योपसन्त्यां मा छैत्सीत् प्रजया च पशुभिश्च स्वाहा। मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा। यत्कर्मणात्यरीरिचं यद्वा न्यूनमिहाकरम्। अग्निष्टत् स्विष्टकृद्विद्वान् स्विष्टं सुहुतं करोतु नः स्वाहेति। अथास्य दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिरथ दधिमधुघृतं संनीयानन्तर्हितेन जातरूपेण प्राशयति भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवः स्वः सर्वं त्वयि दधामीति। अथास्य नाम करोति वेदोऽसीति तदस्य तद्गुह्यमेव नाम भवति। अथैनं मात्रे प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रः। येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करिति। अथास्य मातरमभिमन्त्रयते। इलासि मैत्रावरुणी वीरे वीरमजीजनत्। सा त्वं वीरवती भव यास्मान्वीरवतोऽकरदिति तं वा एतमाहुरतिपिता बताभूरतिपितामहो बताभूः परमां बत काष्ठां प्रापदच्छ्रिया यशसा ब्रह्मवर्चसेन य एवंविदो ब्राह्मणस्य पुत्रो जायते। इति। बृह. उ. VI. 4. 24–28.
Linked texts (1)
- Bṛhadāraṇyakopaniṣad — Sanskrit