History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.73
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.73
- Language
- English
v3.c54.73
PAGE 527 NOTE 1230 (विवाहविधि)-आश्व. गृ. I. 7. 3-22—पश्चादग्नेर्दृषदश्मानं प्रतिष्ठाप्योत्तरपुरस्तादुदकुम्भं समन्वारब्धायां हुत्वा तिष्ठन्प्रत्यङ्मुखः प्राङ्मुख्या आसीनाया गृभ्णामि ते सौभगत्वाय हस्तमित्यङ्गुष्ठमेव गृह्णीयाद्यदि कामयीत पुमांस एव मे पुत्रा जायेरन्निति । अङ्गुलीरेव स्त्रीकामः । रोमान्ते हस्तं साङ्गुष्ठमुभयकामः । प्रदक्षिणमग्निमुदकुम्भं च त्रिः परिणयञ्जपति । अमोहमस्मि सा त्वं सा त्वमस्यमोऽहं द्यौरहं पृथिवी त्वं सामाहमृक्त्वं तावेह विवहावहै । प्रजां प्रजनयावहै संप्रियौ रोचिष्णू सुमनस्यमानौ जीवेव शरदः शतमिति । परिणीय परिणीयाश्मानमारोहयति । इममश्मानमारोहाश्मेव त्वं स्थिरा भव । सहस्व पृतनायतोऽभितिष्ठ पृतन्यत इति । वध्वञ्जलावुपस्तीर्य भ्राता भ्रातृस्थानो वा द्विर्लाजानावपति । त्रिर्जा मदन्त्यानाम् । प्रत्यभिघार्य हविः । अवत्तं च । एषोऽवदानधर्मः । अर्यमणं नु देवं कन्या अग्निमयक्षत । स इमां देवो अर्यमा प्रेतो मुञ्चातु नामुतः स्वाहा । वरुणं नु देवं कन्या अग्निमयक्षत । स इमां देवो वरुणः प्रेतो मुञ्चातु नामुतः स्वाहा । पूषणं नु देवं कन्या अग्निमयक्षत । स इमां देवः पूषा प्रेतो मुञ्चातु नामुतः स्वाहेत्यविच्छिन्दत्यञ्जलिं सुचेव जुहुयात् । अपरणीय शूर्पपुटेनाभ्यात्मं तूष्णीं चतुर्थम् । ओप्योप्य हैके लाजान् परिणयन्ति तथोत्तमे आहुती न संनिपततः । अथास्यै शिखे विमुञ्चति यदि कृते भवतः । ऊर्णास्तुके के शपक्षयोर्बद्धे भवतः । प्र त्वा मुञ्चामि वरुणस्य पाशादिति । उत्तरामुत्तरया । अथैनामपराजितायां दिशि सप्त पदान्यभ्युत्क्रामयतीष एकपद्यूर्जे द्विपदी रायस्पोषाय त्रिपदी मायोभव्याय चतुष्पदी प्रजाभ्यः पञ्चपद्यृतुभ्यः षट्पदी सखा सप्तपदी भव सा मामनुव्रता भव । पुत्रांन्विन्दावहै बहूंस्ते सन्तु जरदष्टय इति । उभयोः संनिधाय शिरसी उदकुम्भेनावसिच्य । ब्राह्मण्यश्च वृद्धाया जीवपत्न्य जीवप्रजाया अगार एतां रात्रिं नयन्ति । ध्रुवमरुन्धतीं सप्तऋषीनीति दृष्ट्वा । वाचं विसृजेत जीवपत्नीं प्रजां विन्देयेति ।
Linked texts (1)
- Āśvalāyanagṛhyasūtra — Āśvalāyana, Sanskrit