History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.74
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.74
- Language
- English
v3.c54.74
PAGE 543 NOTE 1258 (मधुपर्क). आश्व. गृ. I. 24. 5-26--दधानि मध्वानीय । सर्पिर्वा मध्वलाभे । विष्टरः पाद्यमर्घ्यमाचमनीयं मधुपर्को गौरित्येतेषां त्रिखिरेकैकं वेदयन्ते । अहं वर्ष्म सजातानां विद्युतामिव सूर्यः । इदं तमधितिष्ठामि यो मा कश्चाभिदासतीत्युदग्रये विष्टर उपविशेत् । आक्रम्य वा । पादौ प्रक्षालापयीत दक्षिणमग्रे ब्राह्मणाय प्रयच्छेत् । सव्यं शूद्राय । प्रक्षालितपादोऽर्घ्यमञ्जलिना प्रतिगृह्य । अथाचमनीयेनान्वाचामति अमृतोपस्तरणमसीति । मधुपर्कमाह्रियमाणमीक्षेत मित्रस्य त्वा चक्षुषा प्रतीक्ष इति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीति तदञ्जलिना प्रतिगृह्य मधु वाता ऋतायत इति तृचेनावेक्ष्यानामिकया चाङ्गुष्ठेन च त्रिः प्रदक्षिणमालोड्य वसवस्त्वा गायत्रेण छन्दसा भक्षयन्विति पुरस्तान्निमार्टि । रुद्रास्त्वा त्रैष्टुभेन छन्दसा भक्षयन्विति दक्षिणतः आदित्यास्त्वा जागतेन छन्दसा भक्षयन्विति पश्चात् विश्वे त्वा देवा आनुष्टुभेन छन्दसा भक्षयन्वित्युत्तरतः भूतेभ्यस्त्वेति मध्यात्त्रिुरुद्गृह्य । विराजो दोहोऽसीति प्रथमं प्राश्नीयात् । विराजो दोहमशीयेति द्वितीयं मयि दोहः पद्यायै विराज इति तृतीयम् । न सर्वम् । न तृप्तिं गच्छेत् । ब्राह्मणायाोदङ्मुङ्खोच्छिष्टं प्रयच्छेद्दलाभेऽप्सु । सर्वं वा । अथाचमनीयेनान्वाचामति अमृतापिधानमसीति । सत्यं यशः श्रीर्मयि श्रीः श्रयतामिति द्वितीयम् । आचान्तोदकाय गां वेदयन्ते । हतो मे पाप्मा पाप्मा मे हत इति जपित्वो
Linked texts (1)
- Āśvalāyanagṛhyasūtra — Āśvalāyana, Sanskrit