History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.77
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.77
- Language
- English
v3.c54.77
<PAGE 699 NOTE 1673>—अथ सूना व्याख्यास्यामः । जङ्गमस्थावरादीन् प्राणिनः सूदयन्तीति सूनाः । ताः पञ्चविधा भवन्ति । द्रुतावतरणावगाहन-विक्षोभणविक्षेपणापूतग्रहणयानादिभिराद्यां कुर्वन्ति । अवेलाविस्पष्टद्रुतगमनाक्रमणादिभिर्द्वितीयाम् । आञ्जनग्रहणबन्धनकुट्टनोत्पाट्नादिभिस्तृतीयाम् । आक्रमणघर्षणपेषणादिभिश्चतुर्थीम् । आदीपनतापनस्वेदनभर्जनपचनादिभिः पञ्चमीम् । ता एताः पञ्चसूना निरययोनीरहरहः प्रजाः कुर्वन्ति । अग्निगुरुशुश्रूषास्वाध्यायैरादितः सूनात्रयं ब्रह्मचारिणः पावयन्ति । पञ्च पञ्चभिः पाकयज्ञैर्गृहिणवानप्रस्थाः पावयन्ति । पवित्रज्ञानध्यानाैर्भैक्षवः सूनाद्वयं पावयन्ति । अनिर्ज्यो दन्तसूनायाः । इति । हारीत quoted in आह्निकप्रकाश p. 389. The words अथ सूना व्या० ... सूदयन्तीतिसूनाः are quoted by स्मृतिच० I. p. 208 also. The आह्निकप्रकाश p. 390 explains ‘प्रथमसूनाद्वयस्यैव संन्यासिनः संभवात् ।...... दन्तसूना दन्तैश्चर्वणादिभिर्बीजाङ्कुरादिहिंसा । तस्य उक्तैर्न शोधनमित्यर्थः । एवं च बीजभोजननिषेधोऽपि दन्तैर्बीजहिंसादिपर एव । तेन वह्निपक्वभ्रष्टबीजादेर्भक्षणे न दोषः । अङ्कुरिणोऽङ्कुरयोग्यस्थावरबीजादेर्भक्षणे परं दोष इति ।’
Linked texts (3)
- Hāritasmṛti (Laghu- and Vṛddha-Hārīta) — Hārīta, Sanskrit
- Smṛticandrikā (Āpadeva) — Āpadeva 1600, Sanskrit
- Āhnikaprakāśa — Mitramiśra, Sanskrit