History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.82
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.82
- Language
- English
v3.c54.82
PAGE 770 NOTE 1842—कृतनित्यविधिः पादौ प्रक्षाल्य बहिर्द्विराचम्य प्राङ्मुख उदङ्मुखो वा यज्ञोपवीती सोत्तरवासा विभवे रत्नहिरण्यपाणिर्गन्धाक्षतमाल्यवान् शुचिः प्रशस्तश्रोपण्याद्विश्लक्ष्णे चतुष्पादपीठे सुखासीनो भूमौ पादौ प्रतिष्ठाप्यान्तर्जानुकरी वाग्यतस्ताञ्चित्तश्चतुरस्रे गोमयमण्डले सपर्यान्ते विप्रो दीपसंनिधौ भुञ्जीत । त्रिकोणमण्डले नृपः । वर्तुले वैश्यः । अभ्युक्षिते शूद्रो भुञ्जीत । ततो मण्डले पालिकायन्त्रादौ शुद्धं पात्रं निघाय प्रक्षाल्य पञ्चमहायज्ञावशिष्टं पूर्वं तु संस्कृतं विहितं मितं घृताद्युपस्कृतं मातृभार्या-दिदत्तमतिथ्यभ्यागतभृत्यपुत्रादिपरिवृत एकान्ते भुञ्जीत । तदन्नमकुत्सयन् ब्रह्मग्रन्थिरहित-पवित्रदक्षिणपाणिर्गायत्र्याऽभ्युक्ष्यैान्नं ओंभूरित्यादिमन्त्रेणाभिमन्त्र्य सत्यं त्वर्तेन परिषिञ्चामि ओं चित्राय नमश्चित्रगुप्ताय नमो यमाय नमः सर्वभूतेभ्यो नम इति भूमौ बलिं दत्त्वा हस्तपादवदनाः करमध्येनान्नमलङ्घयन्नमृतोपस्तरणमसीत्यपोशनं गृहीत्वा सर्वाङ्गु-लिभिः सर्वग्रासं प्रसन् प्राणायोपानाय व्यानायोदानाय समानायेति स्वाहान्तैः पञ्चाहुतीः सघृताः सक्षीरा वा हुत्वा वाक्पाणिपादचापल्यं वर्जयन् कृत्स्नं ग्रासं साङ्गुष्ठं ग्रसन्नरो भुक्त्वा अमृतापिधानमसीति गण्डूषार्धं पीत्वार्धं भूमौ बहिःपाणिं निर्णीय पवित्रं विसृज्य भूमौ पात्रे वा क्षित्त्वा सम्यगुच्छिष्टं प्रक्षाल्य द्विराचामेत् । ततो हस्तौ संमृज्य परिम्रा-व्याङ्गुष्ठेन चक्षुषोर्निष्पिञ्ज्याक्षिणी स्पृष्ट्वाभिमुपस्पृश्येष्टदेवतां स्मरेत् । स्मृत्यर्थसार pp. 68–69.
Linked texts (1)
- Smṛtyarthasāra — Śrīdhara (Smṛtyarthasāra), Sanskrit