Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.83

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.83

Language
English

v3.c54.83

PAGE 811 NOTE 1926—अथातोऽध्यायोपाकरणम् । ओषधीनां प्रादुर्भावे श्रवणेन श्रावणस्य । पञ्चम्यां हस्तेन वा । आज्यभागौ हुत्वाज्याहुतीर्जुहुयात् । सावित्र्यै ब्रह्मणे श्रद्धायै मेधायै प्रज्ञायै धारणायै सदसस्पतयेऽनुमतये छन्दोभ्य ऋषिभ्यश्चेति । अथ दधिसक्तूञ्जुहोति । अभिमीळे पुरोहितमित्येका । कुषुम्भकस्तदब्रवीत्, आवदंस्त्वं शकुने भद्रमावद, गृणाना जमदग्निना, धामं ते विश्वं भुवनमधिश्रितम्, गन्ता नो यज्ञं यज्ञियाः सुशमि, यो नः स्वो अरणः, प्रतिचक्ष्व विचक्ष्व, आग्ने याहि मरुत्सखा, यत्ते राजञ्छ्रुतं हविरिति द्व्यृचाः । समानी व आकूतिरित्येका । तच्छंयोरावृणीमह इत्याका । अध्येष्य-माणोऽप्याच्यैरन्वारब्ध एताभ्यो देवताभ्यो हुत्वा सौविष्टकृतं हुत्वा दधिसक्तून्प्राश्य ततो मार्जनम् । अपरेणाग्निं प्राक्कूलेषु दर्भेषूपविश्योदपात्रे दर्भान्कृत्वा ब्रह्माञ्जलिकृतो जपेत् । ओंपूर्वा व्याहृतीः सावित्रीं च त्रिरभ्यस्य वेदादिमारभेत् । आश्व. गृ. III. 5. 3–12.

Linked texts (1)