Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.85

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.85

Language
English

v3.c54.85

PAGE 830 NOTE 1959—निवेशनं पुनर्नवीकृत्य लेपनस्तरणोपस्तरणैरस्तमिते पायसस्य जुहुयुरप श्वेतपदा जहि पूर्वेण चापरेण च। सप्त च वारुणीरिमाः सर्वाश्च राजबान्धवीः स्वाहा। न वै श्वेतस्याभ्यागारेऽहिर्जघान किंचन। श्वेताय वैदार्वाय नमः स्वाहेति। नात्र सौविष्टकृत्। अभयं नः प्राजापत्येभ्यो भूयादित्यभिमीक्षमाणो जपति। शिवो नः सुमना भवेति हेमन्तं मनसा ध्यायात्। पश्चादग्नेः स्वस्तरः स्वास्तीर्णस्तस्मिन्नुपविश्य स्योना पृथिवी भवेति जपित्वा संविशेत्सामात्यः प्राक्शिरा उदङ्मुखः। यथावकाशमितरे। ज्यायाञ् ज्यायान्वानन्तरः। मन्त्रविदो मन्त्रान्जपेयुः। संहाय अतो देवा अवन्तु न इति त्रिः। एतां दक्षिणामुखाः प्रत्यङ्मुखा उदङ्मुखाश्चतुर्थम्। संहाय सौर्याणि स्वस्त्ययनानि च जपित्वान्नं संस्कृत्य ब्राह्मणान्भोजयित्वा स्वस्त्ययनं वाचयीत। आश्व. गृ. II. 3. 3–12.

Linked texts (1)