Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.84

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c54.84

Language
English

v3.c54.84

PAGE 821 NOTE 1943 (श्रवणाकर्म)—श्रावण्यां पौर्णमास्यां श्रवणाकर्म। अक्षतसक्तूनां नवं कलशं पूरयित्वा दर्वी च बलिहरणीं नवे शिक्ये निदधाति। अक्षतधानाः कृत्वा सर्पिषाऽर्धा अनक्ति। अस्तमिते स्थालीपाकं श्रपयित्वैककपालं च पुरोडाशं अग्ने नय सुपथा राये अस्मानिति चतसृभिः प्रत्यृचं हुत्वा पाणिनैककपालं अच्युताय भौमाय स्वाहेति। अवप्लुतः स्याद्याविःपृष्ठो वा। मा नो अग्नेऽवसृजो अघायेत्येनमाशयेनाभिजुहोति। शं नो भवन्तु वाजिनो हवेष्वित्युक्त्वा धाना अञ्जलिना। अमात्येभ्य इतरा दद्यात्। कलशात् सक्तूनां दर्वी पूरयित्वा प्रागुपनिष्क्रम्य शुचौ देशेऽपो निनीय सर्पदेवजनेभ्यः स्वाहेति हुत्वा नमस्करोति। ये सर्पाः पार्थिवा ये आन्तरिक्षा ये दिव्या ये दिश्यास्तेभ्य इमं बलिमहार्षं तेभ्य इमं बलिमुपाकरोमीति। प्रदक्षिणं परीत्य पश्चाद्बहेलेरुपविश्य सर्पोऽसि सर्पतां सर्पाणामधिपतिरस्यन्नेन मनुष्याँस्त्रायसेऽपूपेन सर्पान्यज्ञेन देवाँस्त्वयि मा सन्तं त्वयि सन्तः सर्पा मा हिंसिषुर्भ्रुवां ते परिददामीति। ध्रुवामुं ते ध्रुवामुं ते इत्यमात्याननुपूर्वम्। ध्रुव मां ते परिददामीत्यात्मानमन्ततः। नैनमन्तरा व्यवेयुरा परिदानात्। सर्पदेवजनेभ्यः स्वाहेति सायं प्रातर्बलिं हरेदा प्रत्यवरोहणात्। प्रसंरूह्याय हैके तावतो बलींस्तदहरेवोपहरन्ति। आश्व. गृ. II. 1. 1–15.

Linked texts (1)