History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c64.332
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c64.332
- Language
- English
v4.c64.332
क्वचिज्जीवतोऽप्यन्त्यकर्म विहितं यथा प्रायश्चित्तानच्छोः पतितस्य घटस्फोटे । तथाहि । महापातकेनोपपातकेन वा पतितो यदि प्रायश्चित्तं न करोति तदा तं गुरूणां बान्धवानां राज्ञश्च समक्षमाहूय तत्पापं प्रकटीकृत्य तं पुनः पुनरुपदिशेत् प्रायश्चित्तं कुरुष्वाचारं लभस्वेति । स यद्येवमपि नाङ्गीकरोति तदा रिक्तादिनिन्द्यतिथौ सायाह्ने सपिण्डा बान्धवाश्च सम्भूय दासी-हस्तेनानीतममेध्यकुसितजलादिपूर्णघटं सर्वतो दास्याथन्वारम्भं कुर्वन्तो दास्या दासस्य वा वामपादेन न्युब्जं छिन्नाप्रदर्भेषु कारयित्वा दासीसहिता वदेयुरसुमनुदकं करोमीति नामग्रहण-पूर्वकं प्राचीनावीतिनो मुक्तशिखाश्च सन्तः । ततोऽधिकारी कर्ता दाहवर्जं जीवन्तमेवोद्दिश्य पिण्डोदकदानादिप्रेतकार्याण्येकादशाहान्तानि नाम्नैव कुर्यात् । मिताक्षरायां प्रेतकार्योत्तरं घट- निनयनमुक्तम् । एकाहमाशौचं सर्वेषाम् । यस्य घटस्फोटः कृतस्तेन सह सम्भाषणस्पर्शादिसंसर्गो न केनापि कार्यः। करणे पतिततुल्यता । धर्मसिन्धु, परिच्छेद III, उत्तरार्ध p. 453. This is a summary of a longer passage on the same subject from the निर्णयसिन्धु, परिच्छेद III उत्तरार्ध p. 567.
Linked texts (5)
- Mānava Dharmaśāstra — Manu & Bhṛgu, Sanskrit
- Vasiṣṭhadharmasūtra — Vasiṣṭha, Sanskrit
- Yājñavalkyasmṛti — Yājñavalkya, Sanskrit
- Gautamadharmasūtra — Gautama (dharmasūtrakāra), Sanskrit
- Nāradasmṛti — Nārada, Sanskrit