Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c64.346

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c64.346

Language
English

v4.c64.346

विहितान्यपि कर्माणि धर्मलोपभयाद् बुधैः । १
रामयेन निवृत्तानि साच्चभावात्कलौ युगे । २
विधवायां प्रजोत्पत्तौ देवरस्य नियोजनम् । ३
बालिकाक्षतयोन्योस्तु वरेणान्येन संस्कृतिः । ४
कन्यानामसवर्णानां विवाहश्च द्विजातिभिः । ५
आततायिद्विजाग्र्याणां धर्मयुद्धेन हिंसनम् । ६
द्विजस्याब्धौ तु नौयातुः शोधितस्यापि सङ्ग्रहः । ७
सत्रदीक्षा च सर्वेषां कमण्डलुविधारणम् । ८
महाप्रस्थानगमनं गोसंज्ञप्तिश्च गोसवे । ९
सौत्राम्यामपि सुराग्रहणस्य च संग्रहः । १०
अग्निहोत्रहवण्याश्च लेहो लीढापरिग्रहः । ११
वानप्रस्थाश्रमस्यापि प्रवेशो विधिनोदितः । १२
वृत्तस्वाध्यायसापेक्षमघसङ्कोचनं तथा । १३
प्रायश्चित्तविधानं तु विप्राणां मरणाान्तिकम् । १४
संसर्गदोषः स्तेयान्यमहापातकनिष्कृतिः । १५
वरातिथिपिंतृभ्यश्च पशूपाकरणक्रिया । १६
दत्तौरसेतरां तु पुत्रत्वेन परिग्रहः । १७
सवर्णान्याङ्गनादुष्टैः संसर्गः शोधितैरपि । १८
अयोनौ संग्रहे वृत्ते परित्यागो गुरुस्त्रियाः । १९
परोद्देशात्मसन्त्याग उच्छिष्टस्यापवर्जनम् । २०
प्रतिमाभ्यर्थनार्थाय सङ्कल्पश्च सधर्मकः । २१
अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शनमेव च । २२
शामित्रं चैव विप्राणां सोमविक्रयणं तथा । २३
षष्ठभक्तानशनेनान्नहरणं हीनकर्मणः । २४
शूद्रेषु दासगोपालकुलमित्रार्धसीरिणाम् । २५
भोज्यान्नता गृहस्थस्य तीर्थसेवातिदूरतः । २६
शिष्यस्य गुरुदारेषु गुरुवद् वृत्तिशीलता । २७
आपद्वृत्तिर्द्विजाग्र्याणामश्वस्तनिकता तथा । २८
प्रजार्थं तु द्विजाग्र्याणां जातारणिपरिग्रहः । २९
ब्राह्मणानां प्रवासित्वं मुखाग्निधमनक्रिया । ३०
बलात्कारादिदुष्टस्त्रीसंग्रहो विधिनोदितः । ३१
यतेस्तु सर्ववर्णेषु भिक्षाचर्या विधानतः । ३२
नवोदके दशाशं च दक्षिणा गुरुनोदिता । ३३

Linked texts (1)