Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c64.347

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c64.347

Language
English

v4.c64.347

ब्राह्मणादिषु शूद्रस्य पचनादिक्रियापि च । ३४
भृग्वग्निपतनाद्यैश्च वृद्धादिमरणं तथा । ३५
गोतृप्तिमात्रे पयसि शिष्टैराचमनक्रिया । ३६
पितापुत्रविरोधेषु साक्षिणां दण्डकल्पनम् । ३७
यतेः सायं गृहत्वं च सूरिभिस्तत्त्वदर्शिभिः । ३८
एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः । ३९
निवर्तितानि कर्माणि व्यवस्थापूर्वकं बुधैः । ४०
समयश्चापि साधूनां प्रमाणं वेदवद्भवेत् । ४१
शपथाः शकुनाः स्वप्नाः सामुद्रिकमुपश्रुतिः । ४२
उपयाचितमादेशाः सम्भवन्ति कलौ क्वचित् । ४३
तस्मात्तन्मात्रलाभेन कलौ कार्यं न कारयेत् । ४४
तथाधर्मसमावेशादन्यान्यपि कलौ युगे । ४५