Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v6.c82.38

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v6.c82.38

Language
English

v6.c82.38

667a क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् । योगसूत्र III.52; भाष्य on this is. यथा अपकर्षपर्यन्तं द्रव्यं परमाणुःएवं परमापकर्षपर्यन्त कालः क्षणो यावता वा समयेन चलितः परमाणुः पूर्वदेशं जहात्युत्तरदेशमुपसपद्येत स कालः क्षण तत्प्रवाहाविच्छेदस्तु क्रम. क्षणतत्क्रमयोर्नास्ति वस्तुसमाहार इति। बुद्धिसमाहारो मुहूर्ताहोरात्रादयः । स खल्वयं कालो वस्तुशून्योऽपि बुद्धिनिर्माणशब्दज्ञानानुपाती लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इवावभासते । क्षणस्तु वस्तुपतित क्रमावलम्बी । क्रमश्च क्षणानन्तर्यात्मा तं कालविद काल इत्याचक्षते योगिनः । न च द्वौ क्षणौ सह भवत । क्रमश्च न द्वयो. सहभूतयोरसम्भवात् पूर्वस्मादुत्तरस्य भाविनो यदानन्तर्यं क्षणस्य स क्रमः । तस्माद्वर्तमान एवैकः क्षणः न पूर्वोत्तरक्षणा सन्तीति तत्नान्नास्ति तत्समाहार । ये तु भूतभाविन क्षणास्ते परिणामान्विता व्याख्येयास्तेनैकेन क्षणेन कृत्स्नो लोक परिणाममनुभवति तत्क्षणोपारूढा खल्वमी सर्वे धर्मास्तयो क्षणतत्क्रमयो सयमत् तयो साक्षात्करणे ततश्च विवेकजं ज्ञानं प्रादुर्भवति ॥ विवेक in the सूत्र means प्रकृतिपुरुषविवेक

Linked texts (1)