Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v6.c82.7

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v6.c82.7

Language
English

v6.c82.7

⁶⁵² कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः। तमा रोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा ॥ स एव सं भुवनान्याभरत् स एव सं भुवनानि पर्येत्। पिता सन्नभवत्पुत्र एषां तस्माद्वै नान्यत्परमस्ति तेजः ॥ काले मनः काले प्राणः काले नाम समाहितम्। कालेन सर्वा नन्दन्त्यागतेन प्रजा इमाः ॥ कालः प्रजा असृजत कालो अग्रे प्रजापतिम्। स्वयम्भूः कश्यपः कालात्तपः कालादजायत ॥ अथर्व XIX. 53 1, 4, 7, 10. कालो ह भूतं भव्यं च पुत्रो अजनयत्पुरा। कालादृचः समभवन्यजुः कालादजायत ॥ इमं च लोकं पर मं च लोकं पुण्यांश्च लोकान् विधृतींश्च पुण्याः। सर्वांल्लोकानभिजित्य ब्रह्मणा कालः स ईयते परमो नु देवः ॥ अथर्व. XIX. 54 3. कश्यप is styled a ऋषि in ऋ IX. 114.2 and is in later mythology the husband of अदिति who is called mother, father and son in ऋ, I 89.10; so probably कश्यप here is the same as प्रजापति In अथर्व. VIII. 5 14 कश्यप is said to have created the amulet jewel 'कश्यपस्त्वामसृजत कश्यपस्त्वा समैरयत्'. विधृति probably means here 'boundaries separating the worlds'.

Linked texts (2)