A Constructive Survey of Upanishadic Philosophy c7.s6: Sources IV
A Constructive Survey of Upanishadic Philosophy c7.s6
- Language
- English
Sources IV
c7.s6.1
अपि सर्वे जीवितमल्पमेव ॥ अभिव्यायन् वर्णरतिप्रमोदान् अतिदीर्घे जीविते को रमेत ॥ क. I. 1. 26, 28.
c7.s6.2
(d) ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकेषणायाश्च व्युत्थाय अथ भिक्षाचर्यं चरन्ति । बृ. IV. 4. 22.
c7.s6.3
(e) इमानि पञ्चमहाभूतानि .... अण्डजानि च जारजानि च स्वेदजानि च उद्भिज्जानि च अश्वा गावः पुरुषाः .... यत्किंचेदं प्राणि जंगमं च पतत्रि च यच्च स्थावरं सर्वे तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितम् । ऐ. III. 3.
c7.s6.4
(f) आहर सौम्य हस्तम् । आर्तभागौ आवामेव एतस्य वेदि- ष्यावः । न नावेतत्सज्जन इति । तौ ह उत्क्रम्य मन्त्रयांचक्राते । तौ ह यदूचतुः कर्म हैब तदूचतुः अथ यत्प्रशशंसतुः कर्म हैब तत्प्रशशंसतुः । पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति । बृ. III. 2. 13.
c7.s6.5
(g) योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनु- संयन्ति यथाकर्म यथाश्रुतम् । क. II. 5. 7.
c7.s6.6
2 (a) तत्कारणं सांख्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशैः । श्वे. VI. 13.
c7.s6.7
(b) यदग्ने रोहितं रूपं तेजसस्तद्रूपं, यच्छुक्लं तदपां, यत्कृष्णं तदन्नस्य, अपागादग्नेरग्नित्वं, वाचारंभणं विकारो नामधेयं त्रीणि रूपाणि इत्येव सत्यम् । छां. VI. 4. 1. अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । श्वे. IV. 5.
c7.s6.8
3 (a) इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः । महतः परमव्यक्तं अव्यक्तात्पुरु- षः परः । पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः ॥ क. I. 3. 10, 11.
c7.s6.9
(b) यच्छेद्वाङ्मनसि प्राज्ञः तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमा- त्मनि महति नियच्छेत् तद्यच्छेच्छान्तआत्मनि ॥ क. I. 3. 13.
c7.s6.10
4 (a) इहैवान्तःशरीरे सौम्य स पुरुषो यस्मिन्नेताः षोडशकलाः प्रभवन्तीति । प्र. VI. 2.
c7.s6.11
(b) स प्राणमसृजत, प्राणाच्छ्रद्धां, खं, वायुः, ज्योतिः, आपः
c7.s6.12
पृथिवी, इन्द्रियं, मनः, । अन्नं, अन्नह्यीर्यं, तपो, मन्त्राः, कर्म, लोकाः, लोकेषु च नाम च ॥ प्र. VI. 4.
c7.s6.13
(c) स यथेमा नद्यः स्यन्दमानाः समुद्रं प्राप्य अस्तं गच्छन्ति । भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवेह परिद्रष्टुरिमाः षोडशकलाः पुरुषं प्राप्य अस्तं गच्छन्ति । भिद्येते तासां नामरूपे, पुरुष इत्येवं प्रोच्यते । स एषोऽकलोऽमृतो भवति । प्र. VI. 5.
c7.s6.14
(d) अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः । तं वेद्यं पुरुषं वेद, यथा मा वो मृत्युः परिव्यथा इति ॥ प्र. VI. 6.
c7.s6.15
5 (a) यश्च स्वभावं पचति विश्वयोनिः, पाच्यांश्च सर्वान्परिणामयेद्यः । सर्वमेतद्विश्वमधिष्ठितेको, गुणांश्च सर्वान् विनियोजयेद्यः ॥ श्वे. VI. 5.
c7.s6.16
(b) प्रधानक्षेत्रज्ञपतिर्गुणेशः । श्वे. VI. 16.
c7.s6.17
(c) यस्तूर्णनाभ इव तन्तुभिः प्रधानजैः स्वभावतो देव एकः समावृणोत् । श्वे. VI. 10.
c7.s6.18
6 (a) मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । श्वे. VI. 10.
c7.s6.19
(b) अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया संनिरुद्धः । श्वे. VI. 9.
c7.s6.20
7 (a) अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः । श्वे. IV. 5.
c7.s6.21
(b) कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च । श्वे. VI. 1.
c7.s6.22
8 (a) ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत् । श्वे. V. 2.
c7.s6.23
(b) हिरण्यगर्भं जनयामास पूर्वम् । श्वे. III. 4. हिरण्यगर्भं पश्यत जायमानं स नो बुद्ध्या शुभया संयुनक्तु । श्वे. IV. 12.
c7.s6.24
(c) यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । श्वे. VI. 18.
c7.s6.25
9 (a) त्रिःसप्तं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा संनिबध्य । ब्रह्मोडपेन प्रतरेत विद्वान्स्त्रोतांसि सर्वाणि भयावहानि ॥
c7.s6.26
प्राणान्प्रपीड्येह स युक्तचेष्टः क्षीणे प्राणे नासिकयोच्छ्वसीत । दुष्टाश्वयुक्तमिव वाहमेनं विद्वान्मनो धारयेताप्रमत्तः ॥ समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः । मनोऽनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणे योजयेत् ॥ नीहारधूमार्कानिललानां खद्योतविद्युत्स्फटिकशशिनाम् । एतानि रूपाणि पुरःसराणि ब्रह्मण्यभिव्यक्तिकराणि योगे ॥ पृथ्व्यतेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते । न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् ॥ लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादः स्वरसौष्ठवं च । गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिं प्रथमां वदन्ति ॥ यथैव बिम्बं मृदुपलिप्तं तेजोमयं भ्राजते तत्सुधातम् । तदात्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः ॥ यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येत् । अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ श्वे. II. 8-15.
c7.s6.27
(b) यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम् ॥ तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् । अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ । क. II. 6, 10-11.
c7.s6.28
(c) ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् । श्वे. I. 14.
c7.s6.29
(d) तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति । मुं. III. 1. 1.
c7.s6.30
सूर्यो यथा सर्वलोकस्य चक्षुः न लिप्यते चाक्षुषैर्बाह्यदोषैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ क. II. 5. 11.
c7.s6.31
(e) भगवन्नस्थिचर्मस्नायुमज्जामांसशुक्रशोणितश्लेष्माश्रुदूषिते विण्मूत्रवातपित्तकफसंघाते दुर्गन्धे निःसारेऽस्मिन् शरीरे किं कामोपभोगैः । मै. I. 2.
c7.s6.32
(f) हिता नाम पुरुषस्य नाड्यो हृदयात्पुरीतमभिपतन्त्वन्ति । तद्यथा सहस्रधा केशो विपाटितस्तादणुभ्यः पिङ्गलस्याणिम्ना तिष्ठन्ते, शुक्लस्य, कृष्णस्य, पीतस्य, लोहितस्य च । तासु तदा भवति यदा सुप्तः स्वप्नं न कंचन पश्यति ॥ (g) अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिश्चतिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ।
c7.s6.33
(h) ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताणिम्ना तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णाः । बृ. IV. 3. 20.
c7.s6.34
10 (a) अथ यदा सुप्तो भवति यदा न कस्यचन वेद, हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात् पुरीतमभिपतिष्ठन्ते, ताभिः प्रत्यवसृप्य पुरीताति शेते स यथा कुमारो वा महाराजो वा महाब्राह्मणो वा अतिघ्नीमानन्दस्य गत्वा शयीत एवमेवैष एतच्छेते । बृ. II. 1. 19.
c7.s6.35
(b) येनावृतं नित्यमिदं हि सर्वं ज्ञः कालकालो गुणी सर्वविद्यः । तेनेशितं कर्म विवर्तते ह पृथिव्यप्तेजोऽनिलखानि चिन्त्यम् ॥ श्वे. VI. 2.
c7.s6.36
(c) आकाशेनाह्वयति, आकाशेन शृणोति, आकाशेन प्रतिशृणोति । आकाशमुपास्स्वेति । छां. VII. 12. 1.
c7.s6.37
11 अन्धं तमः प्रविशन्ति ये अविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः । अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया । इति शुश्रुम धीराणां येनस्तद्विचचक्षिरे । विद्यां चाविद्यां यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते । ई. 9, 11.
c7.s6.38
12 (a) संयुक्तमेतक्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः । अनीशश्चात्मा बध्यते भोक्तृभावात् ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ श्वे. I. 8.
c7.s6.39
(b) एको हि रुद्रो न द्वितीयाय तस्थुः य इमान् लोकान् ईशत ईशनीभिः । प्रत्यङ्जनास्तिष्ठति संचुकोपान्तकाले संसृज्य विश्वा भुवनानि गोपाः ॥ श्वे. III. 2.
c7.s6.40
(c) घृतात्परं मण्डमिवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढम् । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ (d) एकैकं जालं बहुधा विकुर्वन् अस्मिन्क्षेत्रे संचरत्येष देवः । भूयःसृष्ट्वा यतयस्तथेषः सर्वाधिपत्यं कुरुते महात्मा ॥ श्वे. V. ३.
c7.s6.41
13 (a) न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे॥ क. I. 2. 18.
c7.s6.42
(b) हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजा- नीतो नायं हन्ति न हन्यते ॥ क. I. 2. 19.
c7.s6.43
(c) श्रवणायापि बहुभिर्यो न लभ्यः शृवन्तोऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलोऽस्य लब्धाश्चर्यो ज्ञाता कुश- लानुशिष्टः॥ क. I. 2. 7.
c7.s6.44
(d) सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छंतो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्यो- मित्येतत् ॥ क. I. I. 15.
c7.s6.45
(e) तद्य इत्थं विदुर्य्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चि- षमभिसंभवन्त्यर्चिषोऽहह्न आपूर्यमाणपक्षमापूर्यमाणपक्षा- द्यान्षड्दङ्ङेति मासांस्तान ॥ मासेभ्यः संवत्सरं संवत्स- रादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽ- मानवः स एनान्ब्रह्म गमयत्येष देवयानः पन्था इति ॥ अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति धूमाद्रात्रि रात्रिरेपरपक्षं अपरपक्षाद्यान्षड्दक्षिणैति मासां- स्ताभैते संवत्सरं अभिप्नुवन्ति ॥..॥ तस्मिन्नावत्स- पातमुषित्वा अथ एतमेवाध्वानं पुनर्निवर्तन्ते । छां. V. 10. I-5.
c7.s6.46
14 (a) कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ ई. 2.
c7.s6.47
(b) अग्निर्मूर्धा, चक्षुषी चन्द्रसूर्यौ, दिशः श्रोत्रे, वाग् विवृ- ताश्च वेदाः । वायुः प्राणो, हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ मुं. II. I. 4.
c7.s6.48
(c) इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर् बुद्धेरात्मा महान्परः ॥ महतः परमव्यक्तं अव्यक्ता- त्पुरुषः परः। पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः॥
c7.s6.49
15 (a) सोऽहं भगवो मन्त्रविदेवास्मि, नात्मवित्, श्रुतं ह्येव मे भगवदृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि, तं मा भगवान् शोकस्य पारं तारयत्विति॥ छां. VII. I.
c7.s6.50
(b) उद्धर्तुमर्हसीत्यन्धोपानस्थो मेक इवाहमिस्मिन्संसारे भगवंस्त्वं नो गतिस्त्वं नो गतिः। मै. I. 7.
c7.s6.51
(c) ते विश्वरूपं भवभूतमीड्यं देवं स्वचित्तस्थमुपास्यपूर्वम्। श्वे. VI. 2.
c7.s6.52
(d) यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। श्वे. VI. 53.
c7.s6.53
16 ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः। तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते। तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन। एतद्वैतत्। क. II. 6. 1.
c7.s6.54
17 स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दक्षिणाः। अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति॥ अथ यद्यजति यद्यक्षति यन्मैथुनं चरति स्तुतशस्त्रेरेव तदेति। अथ यत्तपो दानमार्जवमहिंसा सत्यवचनमिति ता अस्य दक्षिणाः। तस्मादाहुः सोप्यत्सोष्यतीति। पुनरुत्पादनमेवास्य तन्मरणमेवावभृथः। तद्वैतद् घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव सोऽन्तवेलायामेतत्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणसंशितमसीति। छां. III. 17. 1-6.
c7.s6.55
18 (a) ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे। छाया तपौ ब्रह्मविदो वदन्ति॥ क. I. 3. 1.
c7.s6.56
(b) द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति॥ मुं. III. 1. 1.
c7.s6.57
19 (a) एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा। (b) यस्मात्परं नापरमस्ति किञ्चित् यस्मान्नाणीयो न ज्यायो- ऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ श्वे. III. 9.
c7.s6.58
(c) विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । संबाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन् देव एकः ॥ श्वे. III. 3.
c7.s6.59
20 (a) यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्मेति । तै. III. 1.
c7.s6.60
(b) तस्माद्वा एतस्मादात्मन आकाशः संभूतः आकाशाद्वायुः वायोरग्निः अग्नेरापः अद्भ्यः पृथिवी पृथिव्या ओषधयः ओषधिभ्योऽन्नम् । तै. II. 1.
c7.s6.61
21 स य एषमेतद्राजनं देवतासु प्रोतं वेद एतासामेव देवतांनां सलोकतां सार्ष्टिं सायुज्यं गच्छति । छां. II. 20. 2.
c7.s6.62
22 (a) ज्ञाज्ञौ द्वावजावीशानीशावजा ह्येका भोक्तृभोगार्थयुक्ता । अनन्तश्चात्मा विश्वरूपो ह्यकर्ता त्रयं यदा विन्दते ब्रह्ममेतत् ॥ श्वे. I. 9.
c7.s6.63
(b) एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातःपरं वेदितव्यं हि किं- चित् । भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ॥ श्वे. I. 12.
c7.s6.64
23 (a) वेत्थ नु त्वं काप्य तत्सूत्रं येनायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तीति...वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयतीति..यस्तत्काप्य सूत्रं विद्यात् तं च अन्तर्यामिणमिति स ब्रह्मवित् स लोकवित् स वेदवित् स भूतवित् स आत्मवित् स सर्वविदिति । ... वायुर्वै गौतम तत्सूत्रम् । याज्ञवल्क्य अन्तर्यामिणं ब्रूहीति । यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरों, यं पृथिवी न वेद, यस्य पृथिवी शरीरं, यः पृथिवीमन्तरो यमयत्येष त आत्मा- ऽन्तर्याम्यमृतः । अप्सु, अग्नौ, अन्तरिक्षे, वायौ, दिवि, आदित्ये, दिक्षु, चन्द्रतारके, आकाशे, तमसि, तेजसि, सर्वेषु भूतेषु, प्राणे, वाचि, चक्षुषि, श्रोत्रे, मनसि, त्वाचि, विज्ञाने, रेतसि।..एष त आत्मान्तर्याम्यमृतोऽतोऽन्यदार्तम्।
c7.s6.65
(b) तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य सच्च त्यच्च अभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च । सत्यमभवत् यदिदं किंच तत्सत्यमित्याचक्षते । तै. II. 6.
c7.s6.66
24 (a) स वा अयमात्मा सर्वेषां भूतानां राजा, तद्यथा रथनाभौ च रथनेमौ च अराः सर्वे समर्पिताः एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्व एत आत्मानः समर्पिताः। बृ. II. 5. 15.
c7.s6.67
(b) यथाग्नेः क्षुद्राः विस्फुलिङ्गा व्युच्चरन्त्येवमेव अस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः, सर्वाणि भूतानि व्युच्चरन्ति । तस्य उपनिषत् सत्यस्य सत्यमिति । प्राणाः वै सत्यं, तेषामेष सत्यम् । बृ. II. 1. 20.
c7.s6.68
(c) द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च, मर्त्यं चामृतं, च स्थितं च यच्च, सच्च त्यच्च ।।..।। अथ नामधेयं सत्यस्य सत्यमिति, प्राणा वै सत्यं तेषामेष सत्यम् । बृ. II. 3. 1-6.
c7.s6.69
25 (a) यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ।। मुं. III. 1. 3.
c7.s6.70
(b) वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः । ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ।। मुं. III. 2. 6.
c7.s6.71
26 (a) मनसैवेदमाप्तव्यं नेह नानास्ति किंचन । मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ।। क. II. 4. 11.
c7.s6.72
(b) तं ह पितोवाच श्वेतकेतो यन्नु सोम्य इदं महामना अनूचानानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः ।। येनाश्रुतं श्रुतं भवति अमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः स आदेशो भवतीति ।। यथा सोम्यैकेन मृत्पिण्डेन सर्वे मृन्मयं विज्ञातं स्याद्वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव
c7.s6.73
सत्यम् ॥ यथा सोम्य लोहमणिना सर्वं लोहमयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं लोहमित्येव सत्यम् ॥ यथा सोम्यैकेन नखनिर्कृंतनेन सर्वं कार्ष्णायसं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं कृष्णायासमित्येव सत्यमेवं सोम्य स आदेशो भवतीति ॥ न वै नूनं भगवन्तस्तत एतदवेदिष्यद्येतदवेदिष्यन् कथं मे नावक्ष्यन्निति भगवांस्त्वेव तद्ब्रवात्विति तथा सोम्येति होवाच ॥
c7.s6.74
(c) इदं ब्रह्म इदं क्षत्रं इमे लोकाः इमे देवाः इमानि भूतानि इदं सर्वं यदयमात्मा । स यथा दुंदुभेर्हन्यमानस्य न बाह्यान् शब्दान् शक्नुयाद्ग्रहणाय दुंदुभेस्तु ग्रहणेन दुंदुभेराघातस्य वा शब्दो गृहीतः ॥ स यथा शंखस्य ध्मायमानस्य न बाह्यान् शब्दान् शक्नुयाद्ग्रहणाय शंखस्य तु ग्रहणेन शंखध्मस्य वा शब्दो गृहीतः ॥ स यथा वीणायै वाद्यमानायै न बाह्यान् शब्दान् शक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ बृ. II. 4. 6-9.
c7.s6.75
(d) सा होवाच मैत्रेयी अत्रैव मा भगवान् अमूमुहत् न प्रेत्य संज्ञास्तीति स होवाच याज्ञवल्क्यो न वा अरेऽहं मोहं ब्रवीमि ॥ यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितरं इतरं शृणोति तदितर इतरं अभिवदति तदितर इतरं मनुते तदितर इतरं विजानाति यत्र वा अस्य सर्वमात्मैवाभूत तत्केन कं जिघ्रेत् तत्केन कं पश्येत् तत्केन कं शृणुयात् तत्केन कं अभिवदेत् तत्केन कं मन्वीत तत्केन कं विजानीयात् येनेदं सर्वं विजानाति तं केन विजानीयात् । विज्ञातारमरे केन विजानीयादिति ॥ बृ. II. 4. 13, 14.
c7.s6.76
(e) यद्वै तन्न पश्यति, पश्यन्वै तन्न पश्यति, नहि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् । न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं, यत्पश्येत् । जिघ्रति रसयते वदति शृणोति मनुते स्पृशति विजानाति । यत्र वा अन्यदिव स्यात् तत्र अन्यो अन्यत्पश्येत् जिघ्रेत् रसयेत् वदेत् शृणुयात् मन्वीत स्पृशेत् विजानीयात् । 27 (a) एष सर्वेश्वरः एष सर्वज्ञः एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवप्ययौ हि भूतानाम्॥ नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतः-प्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम्। अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपंचोपशमं शान्तं शिवं अद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः॥
c7.s6.77
(b) स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणाः अभिवदन्ति। अस्थूलं, अनणु, अहस्वं, अदीर्घं, अलोहितं, अच्छायं, अतमो, असंगं, अरसं, अगंधं, अचक्षुष्कं, अश्रोत्रं, अवाक्, अमनो, अप्राणं, अमुखं, अनन्तरं, अबाह्यं, न तदश्नाति किंचन, न तदश्नाति कश्चन। बृ. II. 8. 8.
c7.s6.78
(c) अशब्दमस्पर्शमरूपमव्ययं, तथाऽरसं नित्यमगंधवच्च यत्। अनाद्यनंतं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात्प्रमुच्यते॥ क. I. 3. 15.
c7.s6.79
(d) यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम्। नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः॥ मुं. I. 1. 6.
c7.s6.80
(e) स एष नेति नेतीत्यात्माऽगृह्यो न हि गृह्यते, अशीर्यो न हि शीर्यते, असंगो न हि सज्यते, असितो न व्यथते न रिष्यति खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार। बृ. IV. 5. 15; cf.also बृ. III. 9. 26; IV. 2. 4; IV. 4 22.
c7.s6.81
(f) अथात आदेशः नेति नेति। “न” हि एतस्मादिति “न” इति अन्यत्परमस्ति। बृ. II. 3. 6.
c7.s6.82
(g) तेजोमयोऽतेजोमयः, काममयोऽकाममयः, क्रोधमयोऽक्रोधमयः, धर्ममयोऽधर्ममयः, सर्वमय तद्यदेतत् इदंमयोऽदोमयः॥ बृ. IV. 4. 5.
c7.s6.83
28 (a) एष म आत्माऽन्तर्हृदय एतद्ब्रह्म एतमितः प्रेत्याभिसंभवितास्मीति। छा. III. 14. 4.
c7.s6.84
(b) अस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे। पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततः तेनामृतत्वमेति॥ श्वे. I. 6.
c7.s6.85
(c) ब्रह्म वा इदमग्र आसीत् तदात्मानमेवेत् अहं ब्रह्मास्मीति! तस्मात् तत्सर्वं अभवत् तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् तथा ऋषीणां तथा मनुष्याणाम्...य एवं
c7.s6.86
वेद अहं ब्रह्मास्मीति स इदं सर्वं भवति। अथ योऽन्यां देवतां उपास्ते अन्योऽसौ अन्योऽहमस्मीति, न स वेद यथा पशुरेवं स देवानाम्। बृ. I. 4. 10.
c7.s6.87
(d) स यश्चायं पुरुषे यश्चासावादित्ये स एकः॥ तै. II. 8.
c7.s6.88
(e) पुरुष एवेदं विश्वं...एतद्यो वेद निहितं गुहायां सोऽविद्या- ग्रन्थिं विकिरतीह सोम्य॥ मुं. II. 1. 10.
c7.s6.89
(f) स य एषोऽणिमा एतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा, तत्त्वमसि श्वेतकेतो। छां. VI. 8. 7.
c7.s6.90
29 (a) यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभ- वन्ति। यथा सतः पुरुषात्केशलोमानि तथाक्षरात्संभवतीह विश्वम्॥ मुं. I. 1. 7.
c7.s6.91
(b) तदेतत्सतयं यथा सुदीप्तात्पावकाद्विस्फुलिंगाः सहस्रशः प्रभवन्ते सरूपाः। तथाक्षराद्विविधाः सोम्य भावाः प्रजा- यन्ते तत्र चै वापियन्ति॥ मुं. II. 1. 1.
c7.s6.92
30 (a) यथा नद्यः स्यन्दमानाः समुद्रे अस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुष- मुपैति दिव्यम्॥ मुं. III. 2. 8.
c7.s6.93
(b) न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति...तद्यथाऽ- हिनिव्र्वयनी वल्मीके मृता प्रत्यस्ता शयीत एवमेव इदं शरीरं शेते। बृ. IV. 4. 6-7.
c7.s6.94
31 (a) हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्। तत्त्वं पूषन्- पावृणु सत्यधर्माय दृष्टये॥ ई. 15.
c7.s6.95
(b) दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता। अविद्यायामन्तरे वर्तमानाः स्वयंः धीराः पंडितं मन्यमानाः दंद्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः॥ क. I. 2. 4, 5.
c7.s6.96
(c) पुरुष एवेदं विश्वम्..एतद्यो वेद निहितं गुहायाम्। सोऽ- विद्याग्रन्थिं विकिरतीह सोम्य॥ मुं. II. 1. 10.
c7.s6.97
(d) नाना तु विद्या च अविद्या च। यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति॥ छां. I. 1. 10
c7.s6.98
(e) असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्मा अमृतं गमय। बृ. I. 3. 28 (f) अथ धीरा अमृतत्वं विदित्वा ध्रुवं अध्रुवेष्विह न प्रार्थयन्ते ।
c7.s6.99
(g) त इमे सत्याः कामाः अनृतापिधानाः तेषां सत्यानां सतां अनृतमपिधानम् । यो यो हि अस्य इतः प्रैति न तमिह दर्शनाय लभते । तद्यथा हि हिरण्यनिधिं निहितं अक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुः एवमेव इमाः सर्वाः प्रजाः अहरहर्गच्छन्त्यः एतं ब्रह्मलोकं न विन्दन्ति अनृतेन हि प्रत्यूढाः । स वा एष आत्मा हृदि..अहरहर्वा एवंवित्तवर्गं लोकमेति । छां. VIII. 3. 1-3.
c7.s6.100
(h) तेषां असौ विरजो ब्रह्मलोको न येषु जिह्यं अनृतं न माया चेति । प्र. I. 16.
c7.s6.101
(i) तस्याभिध्यानात् योजनात् तत्त्वभावात् भूयश्चान्ते विश्वमायानिवृत्तिः । श्वे. I. 10.
c7.s6.102
(j) रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इंद्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शतादश ॥ बृ. II. 5. 19; cf.also ऋ. VI. 47. 18.
c7.s6.103
(k) अस्मान्मायी सृजते विश्वमेतत् । तस्मिंश्चान्यो मायया संनिरुद्धः । श्वे. IV. 9.
c7.s6.104
(l) मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । श्वे. IV. 10.
c7.s6.105
(m) य एको जालवानीशत ईशनीभिः सर्वान् लोकान् ईशत ईशनीभिः । श्वे. III. 1.
c7.s6.106
एकैकं जालं बहुधा विकुर्वन् अस्मिन्क्षेत्रे संचरत्येष देवः ।
भूयः सृष्ट्वा यतयस्त्येषः सर्वाधिपत्यं कुरुते महात्मा ॥
c7.s6.107
श्वे. V. 3.
c7.s6.108
(n) यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति । बृ. II. 4. 14.
c7.s6.109
(o) यथा सोम्य एकेन मृत्पिडेन सर्वे मृन्मयं विज्ञातं स्यात् वाचाऽरंभणं विकारो नामधेयं मृत्तिका इत्येव सत्यम् ।
Linked texts (11)
- Śvetāśvataropaniṣad — Śvetāśvatara, Sanskrit
- Kaṭhopaniṣad — Sanskrit
- Muṇḍakopaniṣad — Sanskrit
- Bṛhadāraṇyakopaniṣad — Sanskrit
- Chāndogyopaniṣad — Sanskrit
- Praśnopaniṣad — Pippalāda, Sanskrit
- Taittirīyopaniṣad — Sanskrit
- Maitrāyaṇīyopaniṣad — Sanskrit
- Ṛgvedasaṃhitā — Sanskrit
- Aitareyopaniṣad — Mahidāsa Aitareya, Sanskrit
- Īśopaniṣad — Sanskrit