A Constructive Survey of Upanishadic Philosophy c8.s5.11
A Constructive Survey of Upanishadic Philosophy c8.s5.11
- Language
- English
c8.s5.11
५ (a) ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त । त ऐक्षन्त । अस्माकमेवायं विजयोऽस्माकमेवायं महिमेति । तद्वैषां विजज्ञौ । तेभ्यो ह प्रादुर्भूव तन्न व्यजानन्त किमिदं यक्षमिति । तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि किमेतद्यक्षमिति । तथेति । तदभ्यद्रवत् तमभ्यवदत्कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति । तस्मिंस्त्वयि किं वीर्यमित्यपीदं सर्वं दहेयं यदिदं पृथिव्यामिति । तस्मै तृणं निदधावेतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुम् । स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति । अथ वायुमब्रुवन् वायवेतद्विजानीहि किमेतद्यक्षमिति । तथेति । तदभ्यद्रवत् तमभ्यवदत् कोऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति । तस्मिंस्त्वयि किं वीर्यमित्यपीदं सर्वमाददीयं यदिदं पृथिव्यामिति । तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुम् । स तत एव निववृते । नैतदशकं विज्ञातुं यदेतद्यक्षमिति । अथेन्द्रमब्रुवन् मघवन् एतद्विजानीहि किमेतद्यक्षमिति । तथेति । तदभ्यद्रवत् तमभ्यवदत् । तस्मात्तिरोदधे । स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानां उमां हैमवतीं तां होवाच किमेत- घक्षिति। सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीय- ध्वमिति ततो हैव विदांचकार ब्रह्मेति।... तस्माद्वा इन्द्रो- ऽतितरामिवान्यान्देवान् स ह्येनद्विदे पस्पर्श स ह्येनत् प्रथमो विदांचकार ब्रह्मेति। तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा ३ इतीति न्यमोमिषदा ३ इति... यदेतद्गच्छतीव च मनोऽनेन चैतदुपस्मरत्यनीकं संकल्पः। क. III. IV.
Linked texts (3)
- Chāndogyopaniṣad — Sanskrit
- Taittirīyopaniṣad — Sanskrit
- Kenopaniṣad — Sanskrit