Pramāṇa · Search · About · API

A Constructive Survey of Upanishadic Philosophy c8.s5.27

A Constructive Survey of Upanishadic Philosophy c8.s5.27

Language
English

c8.s5.27

10 (a) यत्ते कश्चिदब्रवीत्तच्छृणुवामेत्यब्रवीन्मे जित्वा शैलिनिर्वाण्ये ब्रूहीति..एकपाद्वा एतत्सम्नाडिति ।...। अब्रवीन्मे उवङ्कः शौल्वायनः प्राणो वै ब्रह्मेति...एकपाद्वा एतत्सम्नाडिति ।...। अब्रवीन्मे गर्धार्ष्णः चक्षुर्वै ब्रह्मेति...एकपाद्वा एतत्सम्नाडिति ।...। अब्रवीन्मे गर्धभीवीपितो भारद्वाजः श्रोत्रं वै ब्रह्मेति...एकपाद्वा एतत्सम्नाडिति । ... । अब्रवीन्मे सत्यकामो जाबालो मनो वै ब्रह्मेति...एकपाद्वा एतत्सम्नाडिति । ...। अब्रवीन्मे विदग्धः शाकल्यो हृदयं ब्रह्मेति...एकपाद्वा एतत्सम्नाडिति । (b) श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः । चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ... ॥ यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । यत्प्राणेन न प्राणिति येन प्राणः प्राणियते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥