Pramāṇa · Search · About · API

A Constructive Survey of Upanishadic Philosophy c8.s5.28

A Constructive Survey of Upanishadic Philosophy c8.s5.28

Language
English

c8.s5.28

II तद्योभये देवाश्च अनुबुबुधिरे...इन्द्रो है व देवानामि- प्रव्राज, विरोचनोऽसुराणां, तौ...समित्पाणी प्रजापति- ...काशामाजग्मतुः...तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच...योयं भगवोऽप्सु परि- ख्यायते यश्चायमादर्शे । ... । तौ ह साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षांचक्राते...एष आत्मेति हो- वाच एतदमृतमभयमेतद्ब्रह्मेति । ... । ह शान्तहृदयौ प्रव- व्रजतुः । ... । शान्तहृदय एव विरोचनोऽसुरानाजगाम । ... अथ हेन्द्रोऽप्राप्यैव देवानिन्द्रं ददर्श यथैव खल्वयमिमं शरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृतः एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णः...नाहमत्र भोग्यं पश्यामीति स समिपाणिः पुनरेयाय । ... । तस्मै (इन्द्राय) होवाच य एष स्वप्ने महीयमानश्चरत्येष आत्मेति होवाच एतदमृत- मभयमेतद्ब्रह्मेति । स ह शान्तहृदयः प्रवव्राज स ह अप्रा- प्यैव देवानिन्द्रं ददर्श...अप्रियवेत्तेव भवति, अपि रो- दितीव जाहमत्रभोग्यं पश्यामीति समिपाणिः पुनरेयाय । ... । तस्मै (इन्द्राय) होवाच तद्यत्रैतत् सुप्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाच...स ह शान्तहृदयः प्रव- व्राज स ह अप्राप्यैव देवानिन्द्रं ददर्श न खलु अयमेवं संप्रत्यात्मानं जानात्यहमस्मीति नो एव इमानि भूतानि विनाशमेवापीतानि भवन्ति नाहमत्र भोग्यं पश्यामीति स समि- पाणिः पुनरेयाय । ... । तस्मै (इन्द्राय) होवाच । मघवन् मर्त्यं वा इदं शरीरमात्तं मृत्युना । तदस्य अमृतस्य अशरी- रस्य आत्मनोऽधिष्ठानम्। आत्तो वै सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति। अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः। अशरीरो वायुरभ्रं विद्युत् स्तनयित्नुः अशरीराण्येतानि तद्यथैतान्यमुष्मादाकाशात्समत्थाय परं ज्योतिरुपसंपद्य स्वेन स्वेन रूपेणाभिनिष्पद्यन्ते एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः।