A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s6.7
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s6.7
- Language
- English
v1.c25.s6.7
वज्रं च त्रिविधं प्रोक्तं नरो नारी नपुंसकम् । पूर्वं पूर्वमिह श्रेष्ठं रसवीर्य्यविपाकतः ॥ 26. अष्टास्त्रं चाष्टफलकं षट्कोणमतिभासुरम् । अम्बुदेन्द्रधनुर्वारितरं पुंवज्रमुच्यते ॥ 27. तदेव चिपिटाकारं स्त्रीवज्रं वर्तुलायतम् । वर्तुलं कुण्ठकोणाग्रं किञ्चिद्गुरु नपुंसकम् ॥ 28. श्वेतादिवर्णभेदेन तदेकं चतुर्विधम् । ब्रह्मक्षत्रियविट्शूद्रं स्वस्ववर्णफलप्रदम् ॥ 30. आयुःप्रदं झटिति सद्गुणदं च वृष्यं दोषत्रयप्रशमनं सकलामयघ्नम् । सूतेन्द्रबन्धवधसद्गुणकृत् प्रदीपं मृत्युञ्जयं तदमृतोपममेव वज्रम् ॥ 32. कुलत्थक्वाथे स्विन्नं कोद्रवकथितेन वा । एकायामावधि स्विन्नं वज्रं शुध्यति निश्चितम् ॥