A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s6.8
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s6.8
- Language
- English
v1.c25.s6.8
वज्रं मत्कुणरक्तेन चतुर्वारं विभावितम् । सुगन्धिमूषिकामांसैर्वर्त्ततैः परिवेष्ट्य च ॥ पुटेत् पुटैर्वराहाख्यैस्त्रिंशद्वारं ततः परम् । ध्वात्वा ध्वात्वा शतं वारान् कुलत्थक्वाथके क्षिपेत् ॥ 34-37. अन्यैरुक्तः शतं वारान् कर्त्तव्योऽयं विधिक्क्रमः ॥ कुलत्थक्वाथसंयुक्तलकुचद्रवपिष्टया । शिलया लिप्तमूषायां वज्रं क्षिप्त्वा निरुध्य च । अष्टवारं पुटेत् सम्यग्विशुष्कैश्च वनोपलैः । शतवारं ततो ध्वात्वा निक्षिप्तं शुद्धपारदे । निश्चितं म्रियते वज्रं भस्म वारितरं भवेत् ॥ 38 39. सत्यवाक् सोमसेनानीरितद्वज्रस्य मारणम् । दृष्टप्रत्ययसंयुक्तमुक्तवान् रसकौतुकी ॥ 40. विलिप्तं मत्कुणस्यास्रै सप्तवारं विशोषितम् ॥ कासमर्दरसापूर्णे लोहपात्रे निवेशितम् । सप्तवारं परिध्वातं वज्रभस्म भवेत् खलु ॥ ब्रह्मज्योतिर्मुनीन्द्रेण क्रमोऽयं परिकीर्त्तितः । 41-43.