A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.62
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.62
- Language
- English
v2.c35.62
Nyáya rejoinder :—सत्यम् । यद्यपि विना वह्निं नोपलव्धो धूमः, यद्यपि च पिशाचान्तरं नोपलभ्यते तेषामनुपलव्धः, तथाऽपि पिशाच- कार्य्य एव धूमः। तत्र तत्र वह्नेः कुतश्चित् स्वहेतोः उपनिपतितः, रासभ इव, न धूमस्य जनकः। तेन तदभावेऽपि तज्जातीय एव कारणभेदजन्मा कदाचित्, कादाचित्को धूमः स्यात्। इति अनिवृत्तिरेव शङ्कायाः। न च दृष्टसम्भवे नादृष्टं कल्पयितुं युक्तम् इति शक्यं भवाद्वक्तुम्। अनुपलब्धिलक्षणप्राप्तस्य अशक्यनिराकरणत्वात् (vide Nyāya Vindu)। न च अनुपलब्धान्तराणि अपि तन्निषेधे प्रभवन्ति। तस्मात् अनन्तरमेव इति अवधारणाभावात् नैवं कार्य्यकारणभावावधारणं युक्तम्। न च यदन्यसहितानन्तरं उपलब्धं तत्, तदन्यरहितात् तस्मात् भवत् भिन्नजातीयं भवति। उक्तं हि रामबसहितात् वह्नेः यादृशो धूमः तादृश एव तद्रहितात् वह्नेरिति। तस्मादेवंविधा शङ्कापिशाचौ स्वनिवारकं तदुपत्तिनिश्चयमास्कन्दतौ न शक्या निवारयितुम्।
Linked texts (1)
- Nyāyabindu — Dharmakīrti, Sanskrit