History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c55: अथो पञ्चमोऽध्यायः ।
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c55
- Language
- English
Contents
- c55.s1 अथ लोहानि । — 32 parts
अथो पञ्चमोऽध्यायः ।
अथ लोहानि ।
c55.s1.1
अथ हेमगुणाः—
c55.s1.2
शुद्धं लोहं कनकजतं भानुलोहाश्मसारं
पूतीलोहं द्वितयमुदितं नागवङ्गाभिधानम् ।
मिश्रं लोहं त्रितयमुदितं पित्तलं कांस्यवत्तं
धातुर्लोहे लुह इति मतः सोऽप्यनेकार्यवाची¹ ॥ 1
प्राकृतं सहजं वह्निसम्भूतं खनिसंभवम् ।
रसेन्द्रवेधसञ्जातं स्वर्णं पञ्चविधं स्मृतम् ॥ 2
सौख्यं वीर्य्यं बलं हन्ति रोगवर्गं करोति च ।
अशुद्धं न मृतं स्वर्णं तस्माच्छुद्धं समाचरेत् ॥ 11.
सुवर्णपत्रं तनु कर्षमानं²
शरावरुद्धं पटुधातुयुक्तम् ।
अङ्गारसंस्थं प्रहरार्द्धमानं
ज्ञानेन तत् स्यात्खलु पूर्णवर्णम्³ ॥ 12
लोहानां मारणं श्रेष्ठं सर्व्वेषां रसभस्मना ।
मूलीभिर्म्मध्यमं प्राहुः कनिष्ठं गन्धकादिभिः ॥ 13.
अरिलोहेन लोहस्य मारणं दुर्गुणप्रदम् ।
कृत्वा कण्टकवेध्यान स्वर्णपत्राणि लेपयेत् ।
लुङ्गाम्बुभस्मसूतेन म्रियते दशभिः पुटैः ॥ 14
द्रुते विनििक्षिपेत् स्वर्णे लोहमानं मृतं रसम् ।
विचूर्ण्य लुङ्गतोयेन दरदेन समन्वितम् ॥
c55.s1.3
¹ सोऽप्यनेकार्थवाची, a variant in the Poona ed, which we have adopted
c55.s1.4
² सुवर्णपत्न तनु कर्षम्मानं, another reading in the Poona ed, which we have accepted
c55.s1.5
³ पूर्णवर्णम्, a different reading in the Poona ed, which we have retained
c55.s1.6
जायते कुङ्कु मच्छायं स्वर्णं द्वादशभिः पुटैः ॥ 15-16.
हेम्नः पादं मृतं सूत पिष्टमम्ले न केनचित् ।
पत्रे लिप्त्वा पुटैः पाच्यं दशभि॑र्म्रियते ध्रुवम् ॥ 17.
c55.s1.7
अथ रजतम्—
c55.s1.8
सहजं खनिसञ्जात' कृत्रिमं च त्रिधा² मतम् ॥ 22,
नागेन टङ्कणेनैव वापित' शुद्धिम्हच्छति ।
खर्परे भस्मचूर्णाभ्यां परितः पालिकां चरेत् ॥
तत्र रूप्यं विनिक्षिप्य समसीससमन्वितम् ।
जातसीसक्षयं यावद्धमेत् तावत् पुनः पुनः ॥
इत्य' संसोधित' रूप्यं योजनीयं रसादिषु । 32-34
लकुचद्रवसूताभ्यां तारपत्रं प्रलेपयेत् ॥
अर्द्धांशो गन्धकं दत्त्वा मूषामध्ये निरुध्य च ।
स्वेदयेद्वालुकायन्त्रे दिनमेकं दृढाग्निना ॥
स्वाङ्गशीतां च तां पिष्टिं साम्व्रतालेन मर्द्दिताम् ।
पुटेद्वादशवाराणि भस्मौभवति रूप्यकम् ॥ 35-37
माक्षीकचूर्णंलुङ्गाम्लमर्द्दित' त्रुटितं शनैः ।
त्रिंशद्वारेण तत् तारं भस्मसाज्जायतेतराम् ॥ 38
तारपत्रं चतुर्भागं भागैकं शुद्धतालकम् ।
मर्द्य³ जम्बीरजद्रावैस्तारपत्राणि लेपयेत् ॥
शोषयेदन्धयन्त्रे च त्रिंशदुपलकैः पचेत् ।
चतुर्द्दशपुटैरेवं निरुत्थ' जायते ध्रुवम् ॥ 40-41.
c55.s1.9
¹ पुटैः पाच्य' दशभि., a variant in the Poona ed, which we have adopted
c55.s1.10
² च विधा, another reading in the Poona ed, which also agrees with B. and K.
c55.s1.11
³ The Poona ed reads मद्यं, which is grammatically inaccurate.
c55.s1.12
अथ ताम्रम्—
c55.s1.13
म्लेच्छं नेपालकं चेति तयोर्नेपालमुत्तमम् ।
नेपालाटन्यखन्त्युत्थ म्लेच्छमित्यभिधीयते ॥ 44
जम्बीररसमंपिष्टरम गन्धकलेपितम् ।
शुल्वपत्रं शरावस्थं त्रिपुटैर्य्याति पञ्चताम् ॥ 55.
c55.s1.14
अथायः
c55.s1.15
मुण्डं तीक्ष्णं च कान्तं च त्रिप्रकारमयः स्मृतम् ।
c55.s1.16
अथ मुण्डम्—
c55.s1.17
मृदु कुण्ठं कड़ारं च त्रिविधं मुण्डमुच्यते ॥ 70.
द्रुतद्रावमविस्फोटं चिकणं मृदु तच्छुभम् ।
हतं यत्प्रसरेद्दुःखात् तत्कुण्ठं मध्यमं स्मृतम् ॥
यद्धतं भन्यते भङ्गे कृष्णं स्यात्तत्कड़ारकम् ॥ 71-72
c55.s1.18
अथ तीक्ष्णम्—
c55.s1.19
* * * षड्विधं तीक्ष्णमुच्यते ॥ 75.
परुषं पोगरोन्मुक्तं भङ्गे पारदवच्छवि ।
नमने भङ्गुरं यत् तत् खरलोहमुदाहृतम् ॥ 76
वेगभङ्गुरधारं¹ यत् सारलोहं तदीरितम् 78.
c55.s1.20
¹ The Poona ed reads वेगभङ्ग रुचारम्, which is grammatically inaccurate
c55.s1.21
अथ कान्तम्—
c55.s1.22
भ्रामकं चुम्बकं चैव कर्षकं द्रावकं तथा ।
एवं चतुर्विधं कान्तं रोमक़ान्तं च पञ्चमम् ॥
एकद्वित्रिचतुःपञ्चमर्व्वतोमुखमेव तत् ।
पीतं कृष्णं तथा रक्तं त्रिवर्णं स्यात् पृथक् पृथक् ॥ 84-85
भ्रामयेल्लोहजातं तु तत् कान्तं भ्रामकं मतम् ॥
चुम्बयेच्चुम्बकं कान्तं कर्षयेत् कर्षकं तथा ।
साक्षाद्यद्द्भावयेल्लोहं तत् कान्तं द्रावकं भवेत् ॥
c55.s1.23
तद्रोमकान्तं स्फुटिताद्यतो रोमोद्गमो भवेत् । 88-89
मदोक्तगञ्जः सूतः कान्तमङ्गसमुच्यते ॥
श्वेतं खात्वा गृहीतव्यं तन्नयत्नेन धीमता ।
मारुतातपविक्षोभं वर्जयेन्नात्र संशयः ॥ 92-93
पात्रे¹ यस्य प्रसरति जले तैलविन्दुर्न लिप्तं
गन्धं हिङ्गु त्यजति च तथा तिक्ततां निम्बकल्कः ।
पाके दुग्धं भवति शिखराकारकं नैति भूमिं
कान्तं लोहं तदिदमुदितं लक्षणोक्तं न चान्यत् ॥ 94.
रेतितं घृतसंयुक्तं क्षिप्त्वायः खर्परे पचेत् ।
चालयेल्लोहदण्डेन यावत् क्षिप्तं तृणं दहेत् ॥
पिष्ट्वा पिष्ट्वा पचेदेवं पञ्चवारमतः परम् ।
धात्रीफलरसैर्यद्वा त्रिफलाक्वथितोदकैः ।
पुटेल्लोहं चतुर्वारं भवेद्वारितरं खलु ॥ 104-105
तीक्ष्णलोहस्य पत्राणि निर्दल्यानि दृढेऽनले ।
ज्ञात्वा क्षिपेज्जले सद्यः पाषाणोलूखलोदरे ॥
खण्डयेद्दृढनिघातैः स्थूलया लोहपारया ।
तन्मध्यात्³ स्थूलखण्डानि रुङ्घा मल्लद्वयान्तरे ॥
ध्मात्वा क्षिप्त्वा जले सम्यक् पूर्व्ववत् खण्डयेत् खलु ।
तच्चूर्णं सूतगन्धाभ्यां पुटेद्विंशतिवारकम् ॥
c55.s1.24
¹ Cf. यत्पात्रे न प्रसरति जले तैलविन्दुः प्रसर्ते हिङ्गुर्गन्धं त्यजति च निजं तिक्ततां निम्बकल्कः । तनं दुग्धं भवति शिखराकारकं नैति भूमिं इत्याहु स्तत् सुमनसचराः कान्तलोहं सद्रूपम् ॥ भावप्रकाशे कान्तलोहप्रकरणम् ।
c55.s1.25
¹ A variant in the Poona ed wrich agrees with the भावप्रकाश, as quoted in the foot note.
c55.s1.26
³ मध्यगतं, a reading in the Poona ed which also agrees with B. and K.
c55.s1.27
पुटे पुटे विधातव्यं पेषणं दृढ़वत्तरम्।
एवं भस्मीकृतं लोहं तत्तद्रोगेषु योजयेत् ॥ 107-110
जम्बीरैरालनालैर्वा विंशत्यंशेन हिङ्गुलम् ॥
पिष्ट्वा रुद्ध्वा पचेल्लोहं तद्गवैः पाचयेत् पुनः।
चत्वारिंशत्पुटैरेवं कान्तं तीक्ष्णं च मुण्डकम् ॥
म्रियते नात्र सन्देहो दत्त्वा दत्त्वैव हिङ्गुलम्। 113-115
शुद्धसूतं द्विधा गन्धं खल्ले तु कृतकज्जलीम्।
द्वयोः समं लोहचूर्णं मर्दयेत् कन्यकाद्रवैः ॥
यामद्वयात् समुद्धृत्य तद्गोलं ताम्रपात्रके।¹
आच्छाद्यैरण्डपत्रैश्च यामार्द्धेऽत्युष्णता भवेत् ॥
धान्यराशौ न्यसेत् पश्चात् त्रिदिनान्ते समुद्धरेत्।
संपेष्य गालयेद्वस्त्रे सत्त्वं वारितरं भवेत् ॥
कान्तं तीक्ष्णं च मुण्डं च निरुत्थं जायते ध्रुवम्।
स्वर्णादीन् मारयेदेवं चूर्णं कृत्वा च लोहवत् ॥ 134-137.
लोहकिट्टं सुसन्तप्तं यावज्जीर्य्यति तत् स्वयम्।
तच्चूर्णं जायते पेष्यं मण्डूरोऽयं प्रयोज्यते ॥ 147
ये गुणा मारिते मुण्डे ते गुणा मुण्डकिट्टेके।
तस्मात् सर्वत्र मण्डूरं रोगशान्त्यै प्रयोजयेत् । 148.
c55.s1.28
¹ ताम्रपात्रके, a reading in the Poona ed., which also agrees with B. and K
c55.s1.29
अथ वङ्गम्—
c55.s1.30
खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते ।
खुरं तत्र गुणैः श्रेष्ठं मिश्रकं न हितं मतम् ॥ 153
धवलं मृदुलं स्निग्धं द्रुतद्रावं सगौरवम्।
निःशब्दं खुरवङ्गं स्यान्मिश्रकं श्यामशुभ्रकम् ॥ 154
वङ्गं तिक्तोष्णकं रूक्षमौषद्वातप्रकोपनम् ।
मेहश्लेष्माभयघ्नं च मेदोघ्नं क्रिमिनाशनम् ॥ 155.
c55.s1.31
द्रावयित्वा निम्नावृक्ते क्षिप्तं निर्गुण्डिकारसे ।
विशुध्यति त्रिवारेण खुरवङ्गं न संशयः ॥ 156.
सतालिनाऽर्कदुग्धेन लिप्त्वा वङ्गदलान्यथ ।¹
बोधिचिञ्चात्वचः क्षारेर्दद्याल्लघुपुटानि च ॥
मर्दयित्वा चरेद्भस्म * * * ॥ 159-160,
c55.s1.32
¹ (१) मध्य, a variant in the Poona ed, which also agrees with B and K
Linked texts (1)
- Rasaratnasamuccaya — Vāgbhaṭa (alchemist), Sanskrit