History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c71.8
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c71.8
- Language
- English
c71.8
ईश्वर उवाच ।
शृणु राम प्रवेक्ष्यामि रहस्यातिर्रहस्यकम् ।
स्वर्णतन्त्राभिधं तन्त्रं कल्पारूपेण कथ्यते ॥ 10.
तत्राद्यं स्वर्णतन्त्रस्य कल्पं शृणु सुपुत्रक ।
तैलकन्दाभिधः कन्दः सिद्धकन्दः प्रकीर्त्तितः ॥ 11
कन्दः कमलवत्तस्य पत्राणि कञ्जवच्छृणो ।
तथैव तु महत्पन्नं तैलं स्रवति सर्व्वदा ॥ 12.
जलमध्ये सदा पुत्र त्वाद्व एव प्रतिष्ठते ।
विषकन्देति विख्यातो विषाच्च कायनाशनं ॥ 13
तैलस्रावो महाकन्दः परितस्तैलमण्डलम् ।
दशहस्तमिते देशे सरते तैलमण्डलम् ॥ 14.
महाविषधरः पुत्र तदधो वसति ध्रुवम् ।
कन्दाधः कन्दच्छायायां नान्यत्र गच्छति प्रिये ॥ 15.
तत्परीक्षार्थंविधानार्थं कन्दे सूचीं प्रवेशयेत् ।
सूचौद्रावः क्षणात् पुत्र तत्कन्दन्तु समाहरेत् ॥ 16
तत्कन्दं तु समादाय शुद्धसूतं खलेत्रिधा ।
मूषायां निक्षिपेत् तन्तु -तत्तैलं तत्र निक्षिपेत् ॥ 17.
दीप्ताग्निं तु महाराम वंशाङ्गारैश्च तापयेत् ।
तत्क्षणान्मृतिमायाति लक्षवेधी भवेत् सुत ॥ 18.
ततः प्रभक्षयेद्राम चुन्निद्राक्षारको ध्रुवम् ।
तालं शुद्धं समानीय तत्तैलेन खलेत् सुत ॥ 19.
Linked texts (1)
- Suvarṇatantra — Sanskrit