Pramāṇa · Search · About · API

The Positive Sciences of the Ancient Hindus c4.s3.18

The Positive Sciences of the Ancient Hindus c4.s3.18

Language
English

c4.s3.18

यथा त्रिसर्गश्रुतौ सृष्टानां भूतानां स्फुटतरव्यवहारनामरूपस्य करणोपायतया त्रिवृत्करणं श्रुतं तद्वत् भूतपञ्चकसर्गश्रुतौ अपि तथा । तदानीं पञ्चीकरणानन्तरं आकाशे शब्दोऽभिव्यज्यते स्फुटतयेति सर्व्वत्र योजनीयं (विद्वन्मनोरञ्जिनी)—अस्ति हि शरीरे सर्व्वेषामपि भूतानां कार्य्यसंप्रतिपत्तिः अवकाशव्यूहनपचनक्लेदनकाठिन्यानां सर्व्वजनानुभवसिद्धत्वात् । अतस्तत्कारणतया पञ्चानि भूतानि एकस्मिन् देहे सन्तीति स्थिते तन्तुपटयोरिव अवयवावयवित्वमेव पञ्चभूतदेह-