Pramāṇa · Search · About · API

The Positive Sciences of the Ancient Hindus c4.s5.7

The Positive Sciences of the Ancient Hindus c4.s5.7

Language
English

c4.s5.7

रुक्षत्वाइन्धः । न जघन्यगुणानाम् । स्निग्धरुक्षयोः पुद्गल्योः सृष्टयोर्बन्धो भवतीति । जघन्यगुणस्निग्धानां जघन्यगुणरुक्षाणां च परस्परेण बन्धो न भवतीति । उक्तं भवता जघन्यगुणवर्ज्जितानां स्निग्धानां रुक्षेण रुक्षाणां च स्निग्धेन सह बन्धो भवतीति । अथ तुल्यगुणयोः किमत्यन्तप्रतिषेध इति । अनोच्यते । न। गुणसाम्ये सदृशानां । गुणसाम्ये सति सदृशानां बन्धो न भवति । तद्यथा । तुल्यगुणस्निग्धस्य तुल्यगुणस्निग्धेन तुल्यगुणरुक्षस्य तुल्यगुणरुक्षेण इति । अत्राह सदृशग्रहणं किमपेक्षते इति । अत्राच्यते । गुणवैषम्ये सदृशानां बन्धो भवति इति । अत्राह किमविशेषेण गुणवैषम्ये सदृशानां बन्धो भवतीति । अनोच्यते । द्व्यधिकादिगुणानां तु द्यधिकादिगुणानां सदृशानां बन्धो भवति। द्विगुणाद्यधिकस्निग्धेन। द्विगुणाद्यधिकस्निग्धस्य स्निग्धेन । रुक्षस्यापि द्विगुणाद्यधिकरुक्षस्य रुक्षेण । एकादिगुणाधिकयोस्तु सदृशयोर्बन्धो न भवति । अत्राह परमाणुषु स्कन्धेषु च ये स्पर्शादयो गुणास्ते किं व्यवस्थिताः तेषु आहोखिदव्यवस्थिता इति । अनोच्यते । अव्यवस्थितायुतः। परिणामात्। अत्राह द्वयोरपि बध्यमानयोर्गुणवत्त्वे सति कथं परिणामो भवति इति । उच्यते । बन्धे समाधिकौ पारिणामिकौ । बन्धे सति समगुणस्य समगुणः परिणामको भवति । अधिकगुणो हीनस्येति ।