Pramāṇa · Search · About · API

The Positive Sciences of the Ancient Hindus c4.s5.6

The Positive Sciences of the Ancient Hindus c4.s5.6

Language
English

c4.s5.6

*Cf.* Umásvátí-Tattvárthádhigama, Chap. V.:—

अजीवकाया धर्म्माधर्म्माकाशपुद्गलाः। द्रव्याणि जीवाश्च। नित्यावस्थितानि अरूपाणि। रूपिणः पुद्गलाः। आकाशादेकद्रव्याणि। निष्क्रियाणि च। पुद्गलजीवास्तु क्रियावन्तः। (क्रियेति गतिकर्म्मोह)। सर्व्वेषां प्रदेशाः सन्ति अन्यत्र परमाणोः। संख्येयासंख्येयाश्च पुद्गलानां। नान्योः। स्पर्शरसगन्धवर्णवन्तः पुद्गलाः। तत्र स्पर्शोऽष्टविधः कठिनो मृदुर्गुरुर्लघुः शीत उष्णः स्निग्धः रूक्ष इति। रसः पञ्चविधस्तिक्तः कटुः कषायोऽम्लोमधुर इति। गन्धो द्विविधः सुरभिरसुरभिश्च। वर्णः पञ्चविधः कृष्णो नीलो लोहितः पीतः शुक्ल इति।

शब्दस्कन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तश्च। तत्र शब्दः षड्‌विधः ततो विततो घनः शुशिरो घर्षो भाषइति। अणवः स्कन्धाश्च। उक्तं च। कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः। एकरसगन्धवर्णो द्विस्पर्शः कार्य्यलिङ्गश्च। तत्राणवोऽबह्वाः स्कन्धास्तु बह्वा एव। स्कन्धास्तावत् संघाताद्भेदेभ्यउत्पद्यन्ते। संघाताद्भेदात् संघातभेदादिति। द्वयोः परमाण्वोः संघाताद्द्द्विप्रदेशः। द्विप्रदेशस्याणोश्च संघातात् त्रिप्रदेशः। एवं संख्येयानामसंख्येयानामनन्तानामनन्तानन्तानां च प्रदेशानां संघातात् प्रदेशाः। भेदादणुः। भेदादेव परमाणुरुत्पद्यते न संघातादिति। अत्राह। किं संयोगमात्रादेव संघातौ भवति। आहोस्विदस्ति कश्चिद्विशेष इति। अत्रोच्यते। सति संयोगे बद्धस्य संघातौ भवतीति। स्निग्ध-