Pramāṇa · Search · About · API

Vada in Theory and Practice: Studies in Debates, Dialogues and Discussions in Indian Intellectual Discourses c7.s5.14

Vāda in Theory and Practice: Studies in Debates, Dialogues and Discussions in Indian Intellectual Discourses c7.s5.14

Language
English

c7.s5.14

⁴ नवभिर्नवभिश्चैव दोषैर्वाग्बुद्धिदूषणैः । अपेतमुपपन्नार्थमष्टादशगुणान्वितम् । सौक्ष्म्यं साङ्ख्यक्रमौ चोभौ निर्णयः सप्रयोजनः ।। पञ्चैतान्यर्थजातानि वाक्यमित्युच्यते नृप ।। एषामेकैकशोऽर्थानां सौक्ष्म्यादीनां सलक्षणम् शृणु संचार्यमाणानां पदार्थपदवाक्यतः ।। दोषाणां च गुणानां च प्रमाणं प्रविभागः । कच्चिचदर्थमभिप्रेत्य सा सङ्ख्येत्युपधार्यताम् । इदं पूर्वमिदं पश्चाद् वक्तव्यं यद् विवक्षितम् । क्रमयोगं तमप्याहुर्वाक्यं वाक्यविदो जनाः ।। धर्मार्थकाममोक्षेषु प्रतिज्ञाय विशेषतः । इदं तदिति वाक्यान्ते प्रोच्यते स विनिर्णयः ।।