Pramāṇa · Search · About · API

Vada in Theory and Practice: Studies in Debates, Dialogues and Discussions in Indian Intellectual Discourses c7.s5.15

Vāda in Theory and Practice: Studies in Debates, Dialogues and Discussions in Indian Intellectual Discourses c7.s5.15

Language
English

c7.s5.15

इच्छाद्वेषभवैर्दुःखैः प्रकर्षो यत्र जायते ।
तत्र सा नृपते वृत्तिस्तत् प्रयोजनमुच्यते ।।
तान्येतानि यथोक्तानि सौक्ष्म्यादीनि जनाधिप ।
एकार्थसमवेतानि वाक्यं मम निशामय ।।
अपेतार्थमभिन्नार्थमव्यावृत्तं न चाधिकम् ।
नाश्लक्ष्णं न च सन्दिग्धं वक्ष्यामि परं ततः ।।
न गुर्वर्थसंयुक्तं पराङ्मुखसुखं न च ।
नानृतं न त्रिवर्गेण विरुद्धं नाप्यसंस्कृतम् ।
न न्यूनं कष्टशब्दं वा विक्रमाभिहितं न च ।
न शेषमनुकल्पेन निष्कारणमहेतुकम् ।
कामात् क्रोधात् भयाल्लोभात् दैन्याच्चानार्यकात् तथा ।
ह्रीतोऽनुक्रोशतो मानान्न वक्ष्यामि कथञ्चन ।।
वक्ता श्रोता च वाक्यं च यदा त्वविकलं नृप ।
सममेति विवक्षायां तदा सोऽर्थः प्रकाशते ।।
वक्तव्ये तु यदा वक्ता श्रोतारमवमन्य वै ।
स्वार्थमाह परार्थं तत् तदा वाक्यं न रोहति।।
अथ यः स्वार्थमुत्सृज्य परार्थं प्राह मानवः ।
विशङ्का जाते तस्मिन् वाक्यं तदपि दोषवत् ।
यैस्तु वक्ता द्वयोरर्थमविरुद्धं प्रभाषते ।
श्रोतुश्चैवात्मनश्चैव स वक्ता नेतरो नृप ।