Pramāṇa · Search · About · API

Vada in Theory and Practice: Studies in Debates, Dialogues and Discussions in Indian Intellectual Discourses c7.s5.54

Vāda in Theory and Practice: Studies in Debates, Dialogues and Discussions in Indian Intellectual Discourses c7.s5.54

Language
English

c7.s5.54

चासन्देहवतो भूयो भूयोऽध्यवसायमभिनिवर्तयति, अश्रुतमपि कञ्चिदर्थं श्रोत्रविषयमापादयति, यच्चाचार्यः शिष्याय शुश्रूषवे प्रसन्नः क्रमेणोपदिशति गुह्याभिमतमर्थजातं तत् परस्परेण सह जल्पन् पिण्डेन विजिगीषुराह संहर्षात् - तस्मात् तद्विद्यसम्भाषामभिप्रशंसन्ति कुशलाः। द्विधा तु खलु तद्विद्यसम्भाषा भवति - सन्धायसम्भाषा विगृह्यसम्भाषा च। — *Caraka Saṁhitā*, Vimānasthāna, IV.15-16 in Priyavrata Sharma's edn VIII. ⁴²तत्र ज्ञानविज्ञानवचनप्रतिवचनशक्तिसम्पन्नेनाकोपनेनानुपस्कृतविद्येनानसूयकेनानुनेयेनानुनेय-कोविदेन क्लेशक्षमेण प्रियसम्भाषणेन च सह सन्धायसम्भाषा विधीयते। तथाविधेन सह कथयन् विस्रब्धः कथयेत्, पृच्छेद्पि च विस्रब्धः, पृच्छते चास्मै विस्रब्धाय विशदमर्थं ब्रूयात्, न च निग्रहभयादुद्विजेत, निगृह्य चैनं न हृष्येत, न च परेषु विकत्थेत, न च मोहादेकान्तग्राही स्यात्, न चाविदितमर्थमनुवर्णयेत्, सम्यक् चानुनयेनानुनयेत्, तत्र चावहितः स्यात् इत्यनुलोमसम्भाषा विधिः। अत ऊर्ध्वमितरेण सह विगृह्यसम्भाषायां जल्पेच्छ्रेयसा योगमात्मनः पश्यन्। प्रागेव च जल्पाज्जल्पान्तरं परावरान्तरं परिषद्विशेषांश्च सम्यक् परीक्षेत। सम्यक् परीक्षा हि बुद्धिमतां कार्यप्रवृत्तिनिवृत्तिकालौ शंसति, तस्मात् परीक्षामभिप्रशंसन्ति कुशलाः। परीक्षमाणस्तु खलु परावरान्तरमिमान् जल्पकगुणान् श्रेयस्करान् दोषवतश्च परीक्षेत सम्यक्, तद्यथा - श्रुतं विज्ञानं धारणं, प्रतिभानां वचनशक्तिरिति, एतान् गुणान् श्रेयस्करानारुहः, इमान् पुनर्दीषवतः, तद्यथा - कोपनत्वमवैशारद्यं भीरुत्वमधारणत्वमनवहितत्वमिति। एतान् गुणान् गुरुलाघवतः परस्य चैवात्मनस्तुत्येत्। — *Caraka Saṁhitā*, Vimānasthāna, IV.17-18 ⁴³ तत्र त्रिविधः परः सम्पद्यते - प्रवरः, प्रत्यवरः, समो वा, गुणविनिक्षेपतः, न त्वेव कार्त्स्न्येन। — Ibid. IV.19 ⁴⁴ परिषत्तु खलु द्विविधा - ज्ञानवती, मूढपरिषच्च। सैव द्विविधा सती त्रिविधा पुनरनेन कारणविभागेन-सुहृत्परिषत्, उदासीनपरिषत्, प्रतिनिविष्टपरिषच्चेति। तत्र प्रतिनिविष्टायां परिषदि ज्ञानविज्ञानवचनप्रतिवचनशक्तिसम्पन्नायां मूढायां वा न कथञ्चित् केनचित् सह जल्पो विधीयते, मूढायां तु सुहृत्परिषद्युदासीनायां वा ज्ञानविज्ञानवचनप्रतिवचनशक्तिनीत-रेणाप्यदीप्तयशसा महाजनविद्विष्टेनापि सह जल्पो विधीयते। तद्विधेन च सह कथयता आविद्धदीर्घसूत्रसङ्कुलैर्वाक्यदण्डकैः कथयितव्यम्, अतिहृष्टं मुहुर्मुहुरुपहसता परं निरूपयता पर्षदमाकारैर्ब्रूवतश्चास्य वाक्यावकाशो न देयः, कष्टशब्दं च ब्रुवता वक्त व्यो नोच्यते, अथवा पुनर्हीना ते प्रतिज्ञा इति। पुनश्चाहूयमानः प्रतिवक्त व्यः - परिसंवत्सरो भवान् शिक्षस्व तावत्, न त्वया गुरुरुपासितो नूनं, अथवा पर्याप्तमेतावत्ते, सकृदपि न परिक्षेपकं निहतं निहतमाहुरिति नास्य योगः कर्तव्यः कथञ्चित्। अप्येवं श्रेयसा सह विगृह्य वक्त व्यमित्याहुरेके, नत्वेवं ज्यायसा सह विग्रहं प्रशंसन्ति कुशलाः। — *Caraka Saṁhitā*, Vimānasthāna, IV.20 ⁴⁵ प्रत्यवरेण तु सह समानाभिमतेन वा विगृह्य जल्पता सुहृत्परिषदि कथयितव्यम्, अथवाऽप्युदासीनपरिषद्यूवधानश्रवणज्ञानविज्ञानोपधारणवचनप्रतिवचनशक्तिसम्पन्नायां

Linked texts (1)