Pramāṇa · Search · About · API

Vada in Theory and Practice: Studies in Debates, Dialogues and Discussions in Indian Intellectual Discourses c7.s5.55

Vāda in Theory and Practice: Studies in Debates, Dialogues and Discussions in Indian Intellectual Discourses c7.s5.55

Language
English

c7.s5.55

कथयता चावहितेन परस्य साद्गुण्यदोषबलमवेक्षितव्यम्, समवेक्ष्य च यत्रैनं श्रेष्ठं मन्येत नास्य तत्र जल्पं योजयेदनाविष्कृतमयोगं कुर्वन्, यत्र त्वेनमवरं मन्येत, तत्रैवेनमाशु निगृह्णीयात्। अत्र खल्विमे प्रत्यवराणामाशु निग्रहे भवन्त्युपायाः, तद्यथा - श्रुतहीनं महता सूत्रपाठेनाभिभवेत्, विज्ञानहीनं पुनः कष्टशब्देन वाक्येन, वाक्यधारणहीनमाविद्धदीर्घसूत्रसङ्कुलैर्वाक्यदण्डकैः प्रतिभाहीनं पुनर्वचनेनैकविधेनानेकार्थवाचिना, वचनहीनशक्तिमर्धोक्तस्य वाक्यस्याक्षेपेण, अविशारदमपत्रपेण, कोपनमायासेनेन, भीरुं वित्रासनेन, अनवहितं नियमेनेति। एवमेतैरुपायैः परमभिभवेच्छीघ्रम्। — *Caraka Saṁhitā*, Vimānasthāna, IV.21