Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.3

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.3

Language
English

v3.c24.s15.3

दण्डार्धं कुम्भतुङ्गं स्याद्व्यर्धं वा द्विदण्डकम्।
कुम्भायामं तथोत्कण्ठमूर्ध्वे कण्ठसमं भवेत् ॥ २७॥
तत्समं ताटिकास्त्यं स्यादुन्नतं तद्विशेषतः।
सपाद(दं) सार्धदण्डं वा तस्यायामं तथोदितम् ॥ २८॥ 56
तत्तुङ्गस्य समं चाधो पद्मातुङ्गं प्रकल्पयेत्।
सपाद्दण्डमायामं तत्तुङ्गार्थं तु हारिकम् ॥ २६ ॥
तद्दण्डं तु तदायाममधोदेशे विशेषतः।
दण्डं तत्समविस्तारमुत्सेधं ताटिकोदयम् ॥ ३० ॥ 60
कलशाकारवत्कुर्यादधो वीरावासनकम्।
आधि(दै) सुरपुष्पाभं यथाशोभं तु कारयेत् ॥ ३१ ॥
तस्याधो(धः) सार्धदण्डेन मूलबन्धं सहाम्बुजैः ।
तस्याधोऽपि विशेषेण मुक्तादामविभूषितम् ॥ ३२ ॥ 64
एवं तु चोर्ध्वालङ्कारमधोऽलङ्कारमुच्यते।
एतद्(एक)दण्डेन मूले तु द्विदण्डेनोन्नतायतम् ॥ ३३॥
एवं पद्मासनं कुर्याद्भूतसिंहादि रूपकम्।
अधः कुम्भं विनिक्षिप्य दण्डं वाथ द्विदण्डकम् ॥ ३४ ॥ 68
सिंहस्योपरि पट्टं वा पद्मं गोपानमेव वा।
पालिकाकृतिवद्धापि शेषं युक्त्या प्रयोजयेत् ॥ ३५॥
अथवा तन्मूले वा पालिकादीनि विन्यसेत्।
एवं तु पालिकास्तम्भं कुम्भस्तम्भमिहोच्यते ॥ ३६ ॥ 72
पादमूले (ले प) कदण्डेन पालिकोन्नतमिष्यते।
तद्विस्तारं द्विदण्डेन कुम्भतुङ्गं द्विदण्डकम् ॥ ३७॥
तद्विस्तारं त्रिदण्डं स्यात्तदर्थं वास्य तुङ्गकम् ।
तत्पादस्याग्रके कुर्यान्नासिकापञ्जरान्वितम् ॥ ३८ ॥ 76
शक्तिध्वजै (जमे) कदण्डं स्यान्नासितुङ्गं द्विदण्डकम्।
तत्समं विहृतं चैव चैकदण्डं गलोदयम् ॥ ३६ ॥
विशालं तद्वयं चाधो(धः) पञ्जरोदयमीरितम् ।
तद्विशालं द्विदण्डं स्यादेतष्टं (कैकं) दण्डमेव च ॥ ४० ॥ 80