Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.4
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.4
- Language
- English
v3.c24.s15.4
यथाशोभं ततः(था) कुर्यात्तस्याधो वीरकण्ठ(ण्ठ)कम् ।
पादतारसमोत्सेधं विस्तारं तत्समं भवेत् ॥ ४१ ॥
तस्याधो फलकादीनां(नि) पूर्ववत्कारयेत्क्रमात् ।
कुम्भस्तम्भमिति प्रोक्तं कोष्ठस्तम्भादि वक्ष्यते ॥ ४२ ॥
कोष्ठकं तद्द्विपार्श्वे तु ऋजु पादाकृति स्त(त)था ।
पञ्जरस्यो(सु)त्तरादींश्च कोष्ठवासाकृति(तीं)स्तथा ॥ ४३ ॥
तदेव कोष्ठपादे च तदूर्ध्वं पञ्जरादिकम् ।
मूलपादविशालेन पञ्जरादीनि कारयेत् ॥ ४४ ॥
पञ्जरं च द्विदण्डेन तदर्धं चोर्ध्वकैः(के) गलम् ।
तदूर्ध्वे च द्विदण्डेन नासिकाशिखरन्वितम् ॥ ४५ ॥
तदर्धं स्तूपिकोत्तुङ्गे(ङ्गे) तन्मा(न्म)ष्ठानासिकाश्रये ।
अथवा मूलपादोच्चं षड्रिन्ध्राष्टभाजिते ॥ ४६ ॥
तत्तद्भागे गुणांशेन कोष्ठोर्ध्वं भूषणोदयम् ।
तत्तत्तुङ्गं पञ्चधा कृत्वा चैकांशं पञ्जरोदयम् ॥ ४७ ॥
तत्समं ग्रीवतुङ्गं स्यात्तदर्द्धयं नासितुङ्गकम् ।
स्तूपितुङ्गं तदर्धं स्यान्नासिकाग्रं च तत्समम् ॥ ४८ ॥
द्विदण्डाद्दण्डवृद्ध्या च दशदण्डावसानकम् ।
पञ्जरादिविशालं यच्छ्लेषं चोर्ध्वेऽङ्घ्रिकम् ॥ ४९ ॥
एकोनविंशांशं स्यात्पञ्जरोच्चं विभाजिते ।
द्विभागे चोत्तरोत्तुङ्गमेकांशं वाजनोदयम् ॥ ५० ॥
तदूर्ध्वपद्मं द्विभागं स्यादाजनं चैकभागिकम् ।
अष्टांशेन कपोतोच्चं तदूर्ध्वे क्षा(चा) लिङ्गमंशकम् ॥ ५१ ॥
तत्सममन्तरितं चोर्ध्वे ह्यंशं तत्प्रतिकोन्नतम् ।
तदूर्ध्वे वाजनं चार्श शेषं युक्त्या प्रयोजयेत् ॥ ५२ ॥
ग्रीवतुङ्गं त्रिधा भज्यमेकांशं वेदिकोन्नतम् ।
ग्रीवतुङ्गं सपादार्थं शेषांशं ग्रीवमूपणम् ॥ ५३ ॥
वेदिकोर्ध्वे तु समांशं सार्धबन्धं(न्धु) गलोदयम् ।
तदूर्ध्वे कम्पमेकांशं सार्धांशं पद्मत्तुङ्गकम् ॥ ५४ ॥