Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.5
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.5
- Language
- English
v3.c24.s15.5
तदूर्ध्वे वाजनं चार्शमायामं वा त्रिभागिकम् ।
एकांशं मध्यभद्रं तु मध्ये युक्त्या प्रकोष्टकम् ॥ ५५ ॥
ग्रीवभूषायतुङ्गे च विभजेत् षडंशकम् ।
द्विभागं चोत्सरोत्सेधं तदर्धं वाजनं भवेत् ॥ ५६ ॥
द्विभागं [च] गलभि(लो)त्सेधं वाजनं चैकभागिकम् ।
मध्यकोष्टोत्तरं तत्स्यात्क्षुद्रपादैः स(सु)भूषितम्(तैः) ॥ ५७ ॥
पञ्जरे प्रतिकायामे चाष्टभाग(गे) विभाजिते ।
सप्तांशे वेदिकायामे पद्मवाजनकान्त(कर्मांश)कम् ॥ ५८ ॥
वेदितारं चतुर्भागं त्रिभागं ग्रीवविस्तृतम् ।
वेदितारसभं नासी(सि) शालायामे प्रकल्पयेत् ॥ ५९ ॥
तदायामे त्रिभागैकं मध्यनासी(सि) विशालकम् ।
विशालार्धं त्रिपादं वा मध्यनास्योदयं भवेत् ॥ ६० ॥
पार्श्वयोर्बहुनास्योश्च शिखरस्य समोन्नतम् ।
तच्छिखं चोत्तरान्तं स्यात्क(किम्) वरीवक्रसंयुतम् ॥ ६१ ॥
नासिकापत्रसंयुक्तं मध्य(ध्ये) क्षुद्रं च निम्नकम् ।
शिरस्यो(स्थू) र्ध्वे पट्टिकानां च मध्यनासी(सि) शिखान्तकम् ॥ ६२ ॥
शिरोलम्बोत्तरान्तं वा वलभा(भी)वृति(ती)मेव वा ।
शिखरस्योर्ध्वे पट्टोबमुत्तरोचं समं भवेत् ॥ ६३ ॥
तदूर्ध्वे वाजनं पद्मं निम्नं कुम्भं सदण्डकम् ।
पद्मा(द्मां) वाजन(नं) पद्मं च तदग्रे कुद्मलान्वितम् ॥ ६४ ॥
एतत्स्तूपित्रयं प्रोक्तं भागं युक्त्या प्रयोजयेत् ।
तच्छिखरे(रः) समलङ्कृत्य पत्रवल्ल्यादिशोभितम् ॥ ६५ ॥
एतत्पञ्जरशालां च पद्ममेकं शिखात्रयम् ।
सर्वालङ्कारसंयुक्तं कुर्यात्तैं तत्तफेण(कः स) तु ॥ ६६ ॥
अथवा तोरणं कृत्वा स्तम्भस्योपरि वाजनम् ।
मूले(ल)पादविशाले तु चैकखण्डं तयोर्भवम् ॥ ६७ ॥
पूर्ववद्भागमानेन चोत्तराङ्गिक्रियान्वितम् ।
तदूर्ध्वे तोरणस्यान्ते मकरा(र)पत्रसंयुक्तम् ॥ ६८ ॥