Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s16.3

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s16.3

Language
English

v3.c24.s16.3

तदूर्ध्वे वल्क्रियाः सर्वे(सर्वा) नाटक्रान्तमुपालिका ।
वल्लिका पत्रवल्ली च चित्राङ्गं कुलिकाङ्घ्रिकम् ॥ २७ ॥
एतत्पर्यायवाक्यानि पुरातनमुनीश्वरैः ।
उत्तरं वाजनमाधारमाधेयं शयनं तथा ॥ २८ ॥
उद्भूतं च मूर्धकं चैव महातौलि खवंशकम् ।
प्रच्छादनसमा(स्व चा)धारमेतत्पर्यायमीरितम् ॥ २६ ॥
पूर्वभागिकमानेन चोत्तरोष्ठं गुहांशकम् ।
तदूर्ध्वे कम्पमेकेन वलभीतत्समोदयम् ॥ ३० ॥
नन्दकरमञ्जवत्कुर्यात्तदूर्ध्वेऽर्धेन वाजनम् ।
द्वांशार्थं मुष्टिबन्धं चारितोध्वेऽर्धेन वाजनम् ॥ ३१ ॥
द्वयं मृणालकोतुङ्गमेकांशेनोर्ध्वकन्धरम् ।
तदूर्ध्वे क्षेपणं कुर्यात्पद्मं तु तत्समं भवेत् ॥ ३२ ॥
तदूर्ध्वे वाजनं ह्यंशं पत्रवल्यादिभूषितम् ।
कदलीस्तम्भसञ्जाता पुष्पवती सुखालिका ॥ ३३ ॥
तदूर्ध्वे द्व्यंशमाधारं पट्टं चार्धेन वाजनम् ।
अध्यर्धं मुष्टिबन्धं च वाजनं चैकभागिकम् ॥ ३४ ॥
तदूर्ध्वे च द्विभागेन महावाजनमीरितम् ।
तदर्धेनाब्जं तस्याधो शोभयेत्समलङ्कृतम् ॥ ३५ ॥
तदेव तुङ्गार्धमानेन चैतक्रियाङ्गमेव च ।
तदूर्ध्वे पादमूलोष्ठ (खं) तत्तद्भागेन विन्यसेत् ॥ ३६ ॥
तदूर्ध्वे द्व्यंशभागेन चालिङ्गोदयमेव च ।
सदूर्ध्वे वाजनं व्यंशं त्रियंशा (त्रयांशम) न्तरितं तथा ॥ ३७ ॥
एकांशं चोध्वैकम्पं स्यात्प्रति (तिं) द्वयंशेन कारयेत् ।
तदूर्ध्वे वाजनं व्यंशं षट्षट्भागोदयं भवेत् ॥ ३८ ॥
अथवा प्रस्तरोत्सेधं त्रिशद्भाग (गे) विभाजिते ।
उत्तरोष्ठ (खं) त्रिभागं स्यात्कम्पमेकेन कारयेत् ॥ ३६ ॥
ऊर्ध्वं वलभि (भी) युग्मांशं वाजने चैकभागिकम् ।
कपोतं पञ्चभागं तु सं (सां) शमालिङ्गमेव च ॥ ४० ॥