Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s16.4
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s16.4
- Language
- English
v3.c24.s16.4
द्विभागा(गम)न्तरितं चैव निष्क्रमर्धेन कारयेत् ।
तदूर्ध्वेऽप्यर्धभागेन प्रतिवाजन(नं) कारयेत् ॥ ४१ ॥
तदूर्ध्वे कन्धरं द्वयंरं वाजनं चैकभागिकम् ।
तदूर्ध्वे गृहं (प्रोषं) युगांशमेकभागेन वाजनम् ॥ ४२ ॥
वेदांशं तत्कपोतोच्चमर्धनालिङ्गमेव च ।
अंशमन्तरितं चोध्वें निष्क्रमर्धेन योजयेत् ॥ ४३ ॥
अंशेन प्रस्तरं चैव सर्वालङ्कारसंयुतम् ।
तदेव मून(ल) गोपानमूर्ध्वे द्वयंशेन वाजनम् ॥ ४४ ॥
तदूर्ध्वे पञ्चभागेन कूटिकाङ्घ्रीरुतुङ्गतम् ।
तत्प्रदेशे विशेषोऽस्ति नाटकाराम(कै)र[व्य]लङ्कृतम् ॥ ४५ ॥
कपोतक्षुद्रनास्यङ्गैः पत्रवल्यादिभूषितम् ।
प्रस्तरे सर्वदेशे तु मकरादिविभूषितम् ॥ ४६ ॥
मकरैरभैरैर्युक्तं शेषं प्रागुक्तवन्नयेत् ।
एकदण्डं द्विदण्डं वा सार्धदण्डमथापि वा ॥ ४७ ॥
क्षुद्रनासं विशालं स्यात्तुङ्गं गोपानसीमकम् ।
अधःपादवशा[न]न्यस्य(स्यं) सर्वेषां क्षुद्रनासिकम् ॥ ४८ ॥
कर्णपादवशात्क्षुद्रनासि(सं) स्तम्भाग्रमर्धकम् ।
षडधिकं तु विंशांशं भागं तु प्रस्तरोदयम् ॥ ४९ ॥
त्रिभागं चोत्तरोत्तुङ्गमूर्ध्वे अं(चा) शेन वाजनम् ।
तदूर्ध्वे पद्ममुङ्गं (द्यमंशं) स्याद्वाजनं चैकभागिकम् ॥ ५० ॥
मुष्टिकन्धं त्रिभागं स्यादंशेन वांजने भवेत् ।
त्र्यंशं मृणालिकोत्तुङ्गं चोशेन वांजने भवेत् ॥ ५१ ॥
युगांशं पट्टिकोत्तुङ्गं वाजनं चैकभागिकम् ।
अर्धैन कम्पमंशेन पद्ममर्धेन वाजनम् ॥ ५२ ॥
कपोतं बन्ध(न्धु) भागं स्यादर्धनालिङ्गमेव च ।
वाजनं तत्समं तु स्यादंशेनान्तरितं तथा ॥ ५३ ॥
तदूर्ध्वे चैकभागेन प्रतिवाजन(नं) संयुतम् ।
नाटके वत्सपादैश्चाधो(धः) पाद(दं) समन्वितम् ॥ ५४ ॥