Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s16.5

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s16.5

Language
English

v3.c24.s16.5

तदूर्ध्वोर्ध्वं च सर्वेषां तत्पादं बहिनिर्गमम् ।
एकदण्डं द्विदण्डं वा त्रिदण्डं वाथ निर्गमम् ॥ ५५ ॥
भूतरूपगणैश्चैव यक्षविद्याधरै(रैस्) तथा ।
नरैर्वा नाटकाङ्गं तु कुर्याद्देवालयादि(दी)नाम् ॥ ५६ ॥
यक्षविद्याधरादीनां भूपहर्म्ये तु योजयेत् ।
हर्म्यान्तरङ्ग्याः सर्वे(र्वाः) नृणां नाटकसंयुतम् ॥ ५७ ॥
सर्वेषां मुष्टिबन्धानां कुर्यात्पादे(दान्) ऋजुस् (जून्) तथा ।
शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ॥ ५८ ॥
एतत्तु प्रस्तरस्योर्ध्वं नाटकस्योर्ध्वशा(स्यां)शवत् ।
कुर्यादेतत्कपोतं स्यादष्टभागाधिकं तथा ॥ ५९ ॥
शेषं तु पूर्ववत्कुर्यात्प्रस्तरं चाष्टभेदकम् ।
प्रस्तरोषमिति प्रोक्तं प्रच्छादनमिहोच्यते ॥ ६० ॥
प्रासादादीनि(नां) सर्वेषां प्रच्छादनादिलक्षणम् ।
उत्तरान्तत्रिकान्तं वा वल्लभी चोर्ध्वमेव वा ॥ ६१ ॥
कपोतान्तकमेवं स्यात्तस्योर्ध्वं प्रस्तरांशकम् ।
एतत्प्रच्छादनात्(न)स्थाने दण्डं चोपरि शाययेत् ॥ ६२ ॥
एतद्द्वारवंशादीर्घं तस्योपरि जयन्तिकाम् ।
दारुदण्डं शिला वापि इ(चे)एकेन जयन्तिकाम् ॥ ६३ ॥
अथवा दारुजयन्तिश्च शिला चेत्स[ह] दण्डकम् ।
विनादण्डं तथा कुर्यात्पाषाणं फलका(कां) न्यसेत् ॥ ६४ ॥
एतत्सर्व्वांतये कुर्याद्देवहर्म्ये विशेषतः ।
शुद्धं मिश्रं च संकीर्णं त्रिविधं तद्वशान्न्यसेत् ॥ ६५ ॥
एकद्रव्यं तु शुद्धं स्याद् द्विद्रव्यं मिश्रकं भवेत् ।
त्रिद्रव्यैस्तु संकीर्णं तज्ज्ञात्वा कारयेद्बुधः ॥ ६६ ॥
केवलं चेष्टकाहर्म्यं दारुप्रच्छादनम(ना)न्वितम् ।
शिलाहर्म्ये शिलातैलि कुर्यात्तत्तद्विशेषतः ॥ ६७ ॥
कर्णं च पट्टिकायुक्तं मध्यं मध्यावसानकम् ।
चतुरश्रा(श्रमा)यताश्रं वा यथा कर्मानुकूलतः ॥ ६८ ॥