Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s17.3
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s17.3
- Language
- English
v3.c24.s17.3
पूर्वे च शयितं दारु दक्षिणे निर्गमं भवेत् ।
दक्षिणे शयितं दारु पश्चिमे निर्गमं भवेत् ॥ २८ ॥
पश्चिमे शयितं दारु निर्गमं चोत्तरे तथा ।
उत्तरे शयितं दारु प्राग्दिशि निर्गमं भवेत् ॥ २९ ॥
आधाराधेययोगेन पूर्ववत्परिकल्पयेत् ।
नन्द्यावतमिति प्रोक्तं स्वस्तिकं वक्ष्यतेऽधुना ॥ ३० ॥
प्राक्शायितं दारु सर्वेषां दक्षमूलोत्तराग्रकम् ।
दक्षिणे शयितं दारु प्रत्यङ्मूलाग्रपूर्वकम् ॥ ३१ ॥
तद्द्वयोर्मूलमग्रं च चाग्निकोणे च बन्धनम् ।
प्रत्यग्दिक्शयितदारुर्मूलं चाम्येऽग्रमुत्तरे ॥ ३२ ॥
सौम्ये शयितदारूणां प्रत्यङ्मूलाग्रपूर्वकम् ।
वायुकोणे दिशं(शि) बन्धं त्रीणि दार्वी(र्वे)णानि एव वा ॥ ३३ ॥
दक्षिणे पश्चिमे सौम्ये दारु तत्प्रागुदग्रकम् ।
नैर्ऋते वायुकोणे च बन्धयेत्तद् द्विसन्धिकम् ॥ ३४ ॥
पूर्वे च दक्षिणे प्रत्यग्दारु प्रागुत्तराग्रकम् ।
वह्नेनैर्ऋत्यकोणे च दारु संबन्धयेत्सुधीः ॥ ३५ ॥
एतत्सवन्धिविरोधोऽस्ति चाधाराधेयपूर्ववत् ।
दारुमूलं तु सच्छिद्रं दार्वी(र्वे)ण्रं सशिखान्वितम् ॥ ३६ ॥
दक्षिणे दारुमूले च छिद्रं प्रत्यक् शिखान्वितम् ।
एतन्नैर्ऋतिकोणे तु युक्त्वा दारुं(रु) सं(च) योजयेत् ॥ ३७ ॥
एवं तु चाग्निकोणे तु युक्त्वा दारु सुयोजयेत् ।
सौम्ये च दारुमूले तु छिद्रं प्रत्यक्छि(शि)खान्वितम् ॥ ३८ ॥
एवं तु वायुकोणे तु कारयेत्तच्चकोत्तमः ।
एवं तु स्वस्तिकं प्रोक्तं युक्ताग्रे चैशकोणयुक् ॥ ३६ ॥
प्राच्ये दार्वी(रुणा) च सच्छिद्रं सौम्याम्रे च शिखान्वितम् ।
छिद्रयुक्तं तदाधारमग्रमिदं सशिखान्वितम् ॥ ४० ॥
वास्तुमध्ये ग(ङ्ग)णां युक्तं तद्बाह्ये वृतदारुणा ।
यथेशदिग्भद्रसंयुक्तं युक्ताद(क्ता)न्यैस्तु योगतः ॥ ४१ ॥