Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s19.3

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s19.3

Language
English

v3.c24.s19.3

तत्समं शिखरोत्तुङ्गं तदधं वच्छ्रितोदयम् ।
प्रस्तरोपरि चैकांशं (शेन) कर्णहर्म्यं प्रकल्पयेत् ॥ २६ ॥
तदूर्ध्वं पूर्ववन्मोषं युक्त्या चांशेन योजयेत् ।
कर्णहर्म्यस्य विस्तारं षड्भागं(गे) तु विभाजिते ॥ २७ ॥
एकांशं कर्णकूटं स्यान्मध्ये शाला द्वयांशकम् ।
एकं वा द्वित्रिदण्डेन निर्गमं भद्रमेव वा ॥ २८ ॥
शालाकूटद्वयोर्मध्ये चैकह्वारा सपञ्जरम् (रा) ।
तत्तङ्क (ङ्गं) सप्तभागं स्यादेकांशं वेदिकोदयम् ॥ २९ ॥
तदूर्ध्वं त्र्यर्धभागेन गलं त्र्यंशकं मस्तकम् ।
तदधं स्तूपिकान्तुङ्गं कर्णहर्म्यमिति स्मृतम् ॥ ३० ॥*
तदेवाधिष्ठानसंयुक्तं कर्णहर्म्यं विना तथा ।
तदूर्ध्वं वेदिकांशेन कर्णकम्पाब्जकम्पयुक् ॥ ३१ ॥
अथवा वेदिकात्तुङ्ग (ङ्गं) शेषं भागमिहोच्यते ।
तदेव वेदिकांशेन नवभाग (गे) विभाजिते ॥ ३२ ॥
द्विभागं वाजनं मूले चोध्वं कर्णं गुणांशकम् ।
तदूर्ध्वं कम्पमेकांशं दल (लं) द्वयंशेन वाजनम् ॥ ३३ ॥
वेदितारं चतुर्भागं मध्यकोष्ठे शिवांणकम् ।
नासिकायुक्तकोष्ठं वा नासिकापञ्जरान्वितम् ॥ ३४ ॥
शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ।
अथवा हर्म्यतुङ्गे तु द्वादशांशं विभाजिते ॥ ३५ ॥
सार्धतुङ्गमधिष्ठानं पाददीर्घ (दैर्घ्यं) गुहांशकम् ।
तदर्धं प्रस्तरोत्सेधं ग्रीवांशं तु गुहांशकम् ॥ ३६ ॥
शिखरोचं द्विभागं स्यात्स्तूपिकाग्रं शिवांणकम् ।
प्रस्तरोर्ध्वं द्विभागेन चान्तरं प्रस्तरन्वितम् ॥ ३७ ॥
उत्सेधदशभागे तु वेदितुङ्गं शिवांशकम् ।
पादतुङ्गं गुहांशं स्यात्त्रिपादांशक(कं) मञ्च (स्त) कम् ॥ ३८ ॥
वेदिकार्धं तु (स) पादांशं कन्धरोच्चं शिवांशकम् ।
शिरस्तुङ्गा(ङ्गम) ध्विनोभागो चोर्ध्वं कुम्भं शिवांशकम् ॥ ३९ ॥

Linked texts (1)